अनभिभवं च दर्शयति ॥ ३५ ॥
सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम् । अनभिभवं च दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिभिः क्लेशैः — ‘एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते’ (छा. उ. ८ । ५ । ३) इत्यादिना । तस्मात् यज्ञादीन्याश्रमकर्माणि च भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ ३५ ॥