ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनभिभवं च दर्शयति ॥ ३५ ॥
सहकारित्वस्यैव एतदुपोद्बलकं लिङ्गदर्शनम्अनभिभवं दर्शयति श्रुतिः ब्रह्मचर्यादिसाधनसम्पन्नस्य रागादिभिः क्लेशैःएष ह्यात्मा नश्यति यं ब्रह्मचर्येणानुविन्दते’ (छा. उ. ८ । ५ । ३) इत्यादिनातस्मात् यज्ञादीन्याश्रमकर्माणि भवन्ति विद्यासहकारीणि चेति निश्चितम् ॥ ३५ ॥

ब्रह्मचर्यादिकर्मणां प्रतिबन्धध्वंसद्वारा विद्यार्थत्वे लिङ्गमाह -

अनभिभवं चेति ॥३५॥