ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अन्तरा चापि तु तद्दृष्टेः ॥ ३६ ॥
विधुरादीनां द्रव्यादिसम्पद्रहितानां अन्यतमाश्रमप्रतिपत्तिहीनानामन्तरालवर्तिनां किं विद्यायामधिकारोऽस्ति, किं वा नास्तिइति संशये, नास्तीति तावत्प्राप्तम् , आश्रमकर्मणां विद्याहेतुत्वावधारणात् , आश्रमकर्मासम्भवाच्चैतेषाम्इत्येवं प्राप्ते, इदमाहअन्तरा चापि तुअनाश्रमित्वेन वर्तमानोऽपि विद्यायामधिक्रियतेकुतः ? तद्दृष्टेःरैक्ववाचक्नवीप्रभृतीनामेवंभूतानामपि ब्रह्मवित्त्वश्रुत्युपलब्धेः ॥ ३६ ॥

अन्तरा चापि तु तद्दृष्टेः ।

अनाश्रमिणां जपादिकर्मसत्त्वान्निन्दितत्वाच्च संशये सति आश्रमकर्मणामेव विद्याहेतुत्वश्रुतेरनाश्रमस्य निन्दितत्वाच्चानधिकार इति पूर्वपक्षः । तत्रानाश्रमकर्मणां विद्याहेतुत्वासिद्धिः । सिद्धान्ते तत्सिद्धिरिति फलम् ॥३६ ॥ ॥३७॥