ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४४ ॥
अङ्गेषूपासनेषु संशयः — किं तानि यजमानकर्माणि आहोस्वित् ऋत्विक्कर्माणीति । किं तावत्प्राप्तम् ? यजमानकर्माणीति । कुतः ? फलश्रुतेः । फलं हि श्रूयते — ‘वर्षति हास्मै वर्षयति ह य एतदेवं विद्वान्वृष्टौ पञ्चविधꣳ सामोपास्ते’ (छा. उ. २ । ३ । २) इत्यादि । तच्च स्वामिगामि न्याय्यम् , तस्य साङ्गे प्रयोगेऽधिकृतत्वात् , अधिकृताधिकारत्वाच्च एवंजातीयकस्य । फलं च कर्तरि उपासनानां श्रूयते — ‘वर्षत्यस्मै य उपास्ते’ इत्यादि । ननु ऋत्विजोऽपि फलं दृष्टम् ‘आत्मने वा यजमानाय वा यं कामं कामयते तमागायति’ (बृ. उ. १ । ३ । २८) इति — न, तस्य वाचनिकत्वात् । तस्मात् स्वामिन एव फलवत्सु उपासनेषु कर्तृत्वम् — इत्यात्रेय आचार्यो मन्यते ॥ ४४ ॥

स्वामिनः फलश्रुतेः ।

अङ्गाश्रितोपास्तिषूभयकर्तृकत्वसंभवात्संशयः ।

यः कृतप्रायश्चित्तः स संव्यवहार्य इत्युत्सर्गस्य निन्दातिशयस्मृत्या नैष्ठिकादिषु बाधवद्यो यदङ्गकर्ता स तदाश्रितस्य कर्तेत्युत्सर्गस्य कर्तुः फलश्रुत्या बाध इति पूर्वपक्षमाह -

किमिति ।

अत्र कर्तृत्वभोक्तृत्वयोरैकाधिकरण्यं फलं सिद्धान्ते त्वङ्गाश्रिता ऋत्विक्कर्तृका अप्युपास्तयो यजमानगामिस्वतन्त्रफलाः किमु वाच्यं स्वनिष्ठब्रह्मविद्यायाः स्वातन्त्र्यमिति फलं विवेक्तव्यम् । अतः पादसंगतिः हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चप्रकारे साम्नि वृष्टिध्यातुर्वर्षसमृद्धिः फलमिति श्रुत्यर्थः ।

श्रुतं फलमृत्विग्गतं किं न स्यादित्यत आह -

तच्चेति ।

यथासाङ्गक्रत्वधिकृताधिकारत्वाद्गोदोहनस्य फलं क्रत्वधिकारिगतं तद्वदङ्गोपासनस्यापि फलं तद्गतमेवेत्यर्थः ।

अस्तु तस्य फलं तद्गतं कर्तात्वन्यः किं न स्यादित्यत आह -

फलं चेति ।

यदुक्तं यजमानागामि फलमिति तस्यापवादं शङ्कते -

नन्विति ।

उद्गानेन साधयतीत्यर्थः । याजमानं फलमित्युत्सर्गस्यासति बाधकवचने सिद्धिरिति समाध्यर्थः । तस्मात्फलभोक्तृत्वादित्यर्थः ॥४४॥