आपस्तम्बप्रयोगस्य गतिमाह -
इतराश्रमेति ।
किञ्चामौनं च मौनं च निर्विद्येति श्रवणमननवदनुष्ठेयत्वोक्तेर्मौनस्य विधेयतेत्याह -
निर्वेदनीयत्वेति ।
न च त्रयाणां विधाने वाक्यभेदो दोषः । उपरिधारणवदिष्टत्वात्तद्वाक्यभेदस्येति भावः ।
कस्येदं ध्यानं विधीयत इत्याह -
तद्वत इति ।
आत्मानं विदित्वेति परोक्षज्ञानवतः संन्यासिनः प्रकृतत्वादित्यर्थः ।
सूक्ष्मार्थसाक्षात्कारसाधनत्वेन ध्यानादेः षड्जादौ लोकतः प्राप्तिं शङ्कित्वा नियमविधिमाह -
नन्वित्यादिना ।
ननु ब्रह्मविद्यापरे वाक्ये कथं ज्ञानाङ्गमिति चेत्सफलक्रतुपरवाक्येऽङ्गविधिवदित्याह -
विध्यादिवदिति ।
प्रधानमारभ्याङ्गपर्यन्तो विधिः । तत्र प्रधानः क्रतुर्विध्यादिरत एवाङ्गं विध्यन्त इत्युच्यत इत्यर्थः । एतत्सूत्रभाष्यभावानभिज्ञाः संन्यासाश्रमधर्मश्रवणादौ विधिर्नास्तीति वदन्ति । विधौ ह्यप्राप्तिमात्रमपेक्षितं तच्च भेददर्शनप्राबल्याद्दर्शितमिति संप्रदायविदः ॥४७॥ समावर्तनानन्तरं कुटुम्बे स्थितो ब्रह्मलोकं प्राप्नोति नच पुनरावर्तत इत्युपसंहारात्संन्यासो नास्तीति शङ्कार्थः । आयासविशिष्टकर्मबाहुल्याद्गृहिणोपसंहारः कृतो न संन्यासाभवादिति समाध्यर्थः ॥४८॥