ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
अनाविष्कुर्वन्नन्वयात् ॥ ५० ॥
‘तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत्’ (बृ. उ. ३ । ५ । १) इति बाल्यमनुष्ठेयतया श्रूयते । तत्र बालस्य भावः कर्म वा बाल्यमिति तद्धिते सति, बालभावस्य वयोविशेषस्य इच्छया सम्पादयितुमशक्यत्वात् , यथोपपादमूत्रपुरीषत्वादि बालचरितम् , अन्तर्गता वा भावविशुद्धिः अप्ररूढेन्द्रियत्वं दम्भदर्पादिरहितत्वं वा बाल्यं स्यादिति संशयः । किं तावत्प्राप्तम् ? कामचारवादभक्षता यथोपपादमूत्रपुरीषत्वं च प्रसिद्धतरं लोके बाल्यमिति तद्ग्रहणं युक्तम् । ननु पतितत्वादिदोषप्राप्तेर्न युक्तं कामचारताद्याश्रयणम् — न; विद्यावतः संन्यासिनो वचनसामर्थ्यात् दोषनिवृत्तेः, पशुहिंसादिष्विवेत्येवं प्राप्ते अभिधीयते —

अनाविष्कुर्वन्नन्वयात् ।

तत्र बाल्ये विषये तद्धितस्य भावार्थत्वासंभवात्कर्मार्थत्वं गृहीत्वा तिष्ठन्मूत्रत्वादिकर्मणोऽप्ररूढेन्द्रियत्वादिरूपभावशुद्धेश्च बालकर्मत्वाविशेषात्संशयमाह -

तत्रेति ।

पूर्वपक्षे विद्याङ्गत्वेन तिष्ठन्मूत्रत्वादेरप्यनुष्ठानं सिद्धान्ते भावशुद्धेरेवेति फलम् ।

पूर्वत्र मौनशब्दस्य ज्ञानातिशये ध्याने प्रसिद्धत्वात्ध्यानं विधेयमित्युक्तम्, तद्वद्बाल्यशब्दस्य कामचारादौ प्रसिद्धेस्तद्विधिग्रहणमित्याह -

किं ताविदिति ।

कामतश्चरणवदनभक्षणानि यस्य स कामचारवादभक्षणस्तस्य भावस्तत्तेत्यर्थः । यथोपपादं यथासंभवं मूत्रादि यस्य तद्भावस्तत्त्वं बाल्यविधिबलात्पातित्यशास्त्रमन्यविषयमिति भावः ।

'यस्त्वविज्ञानवान्भवत्यमनस्कः सदाशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति' इत्यादि शौचभिक्षादिनियमविधिशास्त्राविरुद्धस्य भावशुद्धाख्यबाल्यस्य विधिसंभवान्न यथेष्टचेष्टाविधिरिति सिद्धान्तयति -

एवमिति ।