ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
ऐहिकमप्यप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ५१ ॥
‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत्’ (ब्र. सू. ३ । ४ । २६) इत्यत आरभ्य उच्चावचं विद्यासाधनमवधारितम्; तत्फलं विद्या सिध्यन्ती किमिहैव जन्मनि सिध्यति, उत कदाचित् अमुत्रापीति चिन्त्यते । किं तावत्प्राप्तम् ? इहैवेति । किं कारणम् ? श्रवणादिपूर्विका हि विद्या । न च कश्चित् अमुत्र मे विद्या जायतामित्यभिसन्धाय श्रवणादिषु प्रवर्तते । समान एव तु जन्मनि विद्याजन्म अभिसन्धाय एतेषु प्रवर्तमानो दृश्यते । यज्ञादीन्यपि श्रवणादिद्वारेणैव विद्यां जनयन्ति, प्रमाणजन्यत्वाद्विद्यायाः । तस्मादैहिकमेव विद्याजन्मेत्येवं प्राप्ते वदामः —

ऐहिकमपि संन्यासादिबाल्यान्तं साधनजातमुक्त्वा तत्साध्यविद्याजन्म विचार्यत इति संगतिं वदन् साधनस्य द्विधा फलसंभवात्संशयमाह -

सर्वेत्यादिना ।

कारीरीष्टिवदैहिकफलत्वनियमः श्रवणादीनामिति पूर्वपक्षमाह -

किन्तावदिति ।

नन्वामुष्मिकफलकयज्ञादिसाध्यविद्यायाः कथमैहिकत्वनियम इत्यत आह -

यज्ञादीन्यपीति ।

शुद्धिद्वारा यज्ञादिभिः श्रवणादिषु साक्षाद्विद्याहेतुषु घटितेषु विद्याविलम्बो न युक्तः । दृश्यते च विलम्बः अतः श्रवणादेर्विद्याहेतुत्वमसिद्धमिति पूर्वपक्षे फलम् ।

प्रतिबन्धकवशाद्विलम्बेऽपि हेतुत्वसिद्धिरिति सिद्धान्ते फलं मत्वा चित्रादिवदनियतफलं श्रवणादिकमिति सिद्धान्तयति -

एवमिति ।