असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् । सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फलेऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह -
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ।
मुक्तिरत्र विषयः । तस्यां विद्यावद्विशेषनियमोऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह -
यथेति ।
मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् । सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् ।
किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह -
अपि च विद्यासाधनमिति ।
ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह -
तद्धीति ।
विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः । अन्ये तु सा ब्रह्मानन्येत्याहुः । न च साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् । यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते । यथा च विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावोऽनर्थरूपा अविद्यैवास्ति । अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् । तथा च विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते । विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् ।
संप्रति विद्यायामतिशयाङ्गीकार त्यजति -
न चेति ।
एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः ।
कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह -
तस्मादिति ।
सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः ।
तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह -
नत्विति ।
वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बेऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।
किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् । निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह -
विद्याभेदेत्यादिना ।
स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः । तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम् ॥५२॥