ब्रह्मसूत्रभाष्यम्
तृतीयोऽध्यायःचतुर्थः पादः
भाष्यरत्नप्रभाव्याख्या
 
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ५२ ॥
यथा मुमुक्षोर्विद्यासाधनावलम्बिनः साधनवीर्यविशेषाद्विद्यालक्षणे फले ऐहिकामुष्मिकफलत्वकृतो विशेषप्रतिनियमो दृष्टः, एवं मुक्तिलक्षणेऽपि उत्कर्षापकर्षकृतः कश्चिद्विशेषप्रतिनियमः स्यात् — इत्याशङ्क्य, आह — एवं मुक्तिफलानियम इति । न खलु मुक्तिफले कश्चित् एवंभूतो विशेषप्रतिनियम आशङ्कितव्यः । कुतः ? तदवस्थावधृतेः — मुक्त्यवस्था हि सर्ववेदान्तेष्वेकरूपैव अवधार्यते । ब्रह्मैव हि मुक्त्यवस्था । न च ब्रह्मणोऽनेकाकारयोगोऽस्ति, एकलिङ्गत्वावधारणात् — ‘अस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) ‘स एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) ‘यत्र नान्यत्पश्यति’ (छा. उ. ७ । २४ । १) ‘ब्रह्मैवेदममृतं पुरस्तात्’ (मु. उ. २ । २ । १२) ‘इदꣳ सर्वं यदयमात्मा’ (बृ. उ. २ । ४ । ६), ‘स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५), ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुतिभ्यः । अपि च विद्यासाधनं स्ववीर्यविशेषात् स्वफल एव विद्यायां कञ्चिदतिशयमासञ्जयेत् , न विद्याफले मुक्तौ । तद्धि असाध्यं नित्यसिद्धस्वभावमेव विद्यया अधिगम्यत इत्यसकृदवादिष्म । न च तस्यामप्युत्कर्षनिकर्षात्मकोऽतिशय उपपद्यते, निकृष्टाया विद्यात्वाभावात् । उत्कृष्टैव हि विद्या भवति । तस्मात् तस्यां चिराचिरोत्पत्तिरूपोऽतिशयो भवन् भवेत् । न तु मुक्तौ कश्चित् अतिशयसम्भवोऽस्ति । विद्याभेदाभावादपि तत्फलभेदनियमाभावः, कर्मफलवत् । न हि मुक्तिसाधनभूताया विद्यायाः कर्मणामिव भेदोऽस्ति । सगुणासु तु विद्यासु ‘मनोमयः प्राणशरीरः’ (छा. उ. ३ । १४ । २) इत्याद्यासु गुणावापोद्वापवशाद्भेदोपपत्तौ सत्याम् , उपपद्यते यथास्वं फलभेदनियमः, कर्मफलवत् — तथा च लिङ्गदर्शनम् — ‘तं यथा यथोपासते तदेव भवति’ इति । नैवं निर्गुणायां विद्यायाम् , गुणाभावात् । तथा च स्मृतिः — ‘न हि गतिरधिकास्ति कस्यचित्सति हि गुणे प्रवदन्त्यतुल्यताम्’ (म. भा. १२ । १९४ । ६०) इति । तदवस्थावधृतेस्तदवस्थावधृतेरिति पदाभ्यासः अध्यायपरिसमाप्तिं द्योतयति ॥ ५२ ॥

असति प्रारब्धकर्मप्रतिबन्धे श्रवणादिनेहैव विद्योदयः यज्ञादिभिः संचितपापप्रतिबन्धस्य निरस्तत्वात् । सति तु भोगेन तन्निरासादमुत्रेति विद्याया ऐहिकामुष्मिकत्वविशेषनियम उक्तस्तद्वत्फलेऽपि मोक्षे कश्चिदुत्कर्षादिविशेषः स्यादित्यत आह -

एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ।

मुक्तिरत्र विषयः । तस्यां विद्यावद्विशेषनियमोऽस्ति न वेति फलस्योभयथासंभवात्संशये पूर्वपक्षमाह -

यथेति ।

मुक्तिः सविशेषा, फलत्वाद्विद्यावदतः कर्मसाध्या मुक्तिरिति फलम् । सिद्धान्ते तु निर्विशेषत्वावधारणश्रुतिबाधितमनुमानमतो ज्ञानैकव्यङ्ग्या मुक्तिरिति फलम् ।

किञ्च श्रवणादितारतम्याद्विद्यायां कञ्चिदतिशयमङ्गीकृत्य विद्यालभ्यमुक्तौ नातिशय इत्याह -

अपि च विद्यासाधनमिति ।

ननु ब्रह्मणो नित्यसिद्धत्वादविद्यानिवृत्तेश्चान्यत्वे द्वैतापत्तेः, अनन्यत्वे चासाध्यत्वादिकं विद्याफलमित्यत आह -

तद्धीति ।

विद्ययाभिव्यक्तत्वेन ब्रह्मानन्द एव मुख्यफलमभिव्यक्तिरविद्यानिवृत्तिरानन्दस्वरूपस्फूर्तिप्रतिबन्धकाभावतया विद्यया साध्यते सा चानिर्वाच्येति न द्वैतापत्तिः । अन्ये तु सा ब्रह्मानन्येत्याहुः । न च साध्यत्वानुपपत्तेस्तत्र विद्यावैयर्थ्यमिति वाच्यम् । यदभावे यदभावस्तत्तत्साध्यमिति ज्ञानात्सर्वो लोकः प्रवर्तते । यथा च विद्याया अभावे ब्रह्मस्वरूपमुक्तेरभावोऽनर्थरूपा अविद्यैवास्ति । अस्या अविद्याया एव मुक्तिर्नास्तीतिव्यवहारविषयत्वेन मुक्त्यभावत्वात् । तथा च विद्यां विना मुक्तिर्नास्तीति निश्चयाद्विद्यामुपादत्ते । विद्योदये च स्वतःसिद्धनित्यनिवृत्तानर्थस्वप्रकाशब्रह्मानन्दात्मनवतिष्ठत इत्यनवद्यम् ।

संप्रति विद्यायामतिशयाङ्गीकार त्यजति -

न चेति ।

एकरूपे विषये प्रमायां तारतम्यानुपपत्तेरित्यर्थः ।

कथं तर्हि पूर्वाधिकरणे विद्याया विशेष उक्तः, तत्राह -

तस्मादिति ।

सत्यामपि सामग्र्यां ज्ञाने विलम्ब उक्तो न तारतम्यमित्यर्थः ।

तर्हि सत्यपि ज्ञाने मुक्तौ विलम्बः किं न स्यादित्यत आह -

नत्विति ।

वाय्वादिप्रतिबन्धाद्दिपोत्पत्तिविलम्बेऽप्युत्पन्ने तमोनिवृत्तिविलम्बादर्शनात्सति ज्ञाने नाज्ञाननिवृत्तौ विलम्ब इति भावः ।

किञ्च कर्मणामुपासनानां च गुणभेदेन तारतम्यात्फलतारतम्यं युक्तम् । निर्गुणविद्यायास्त्वेकरूपत्वात्तत्फलैकरूप्यमित्याह -

विद्याभेदेत्यादिना ।

स्मृतौ कस्यचिन्निर्गुणविद इत्यर्थः । तस्माद्विद्यासमकालैव मुक्तिरिति सिद्धम् ॥५२॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दानन्दभगवत्कृतौ शारीरकव्याख्याया भाष्यरत्नप्रभाटीकायां तृतीयस्याध्यायस्य चतुर्थः पादः ॥४॥

॥ इति तृतीयाध्यायस्य निर्गुणविद्याया अन्तरङ्गबहिरङ्गसाधनविचाराख्यश्चतुर्थः पादः ॥

॥ इति श्रीमद्ब्रह्मसूत्रशाङ्करभाष्ये साधनाख्यस्तृतीयोध्यायः ॥