ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःप्रथमः पादः
भाष्यरत्नप्रभाव्याख्या
 
ध्यानाच्च ॥ ८ ॥
अपि च ध्यायत्यर्थ एषः, यत्समानप्रत्ययप्रवाहकरणम् । ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषयाक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते — ध्यायति बकः, ध्यायति प्रोषितबन्धुरिति । आसीनश्च अनायासो भवति । तस्मादपि आसीनकर्मोपासनम् ॥ ८ ॥

किञ्च ध्यातार आसीन एव स्युः ध्यायतिशब्दार्हत्वाद्बकादिवदित्याह -

ध्यानाच्चेति ॥८॥