बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तस्यास्य कर्मकाण्डेन सम्बन्धोऽभिधीयते । सर्वोऽप्ययं वेदः प्रत्यक्षानुमानाभ्यामनवगतेष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनपरः, सर्वपुरुषाणां निसर्गत एव तत्प्राप्तिपरिहारयोरिष्टत्वात् । दृष्टविषये चेष्टानिष्टप्राप्तिपरिहारोपायज्ञानस्य प्रत्यक्षानुमानाभ्यामेव सिद्धत्वात् नागमान्वेषणा । न चासति जन्मान्तरसम्बन्ध्यात्मास्तित्वविज्ञाने जन्मान्तरेष्टानिष्टप्राप्तिपरिहारेच्छा स्यात् ; स्वभाववादिदर्शनात् । तस्माज्जन्मान्तरसम्बन्ध्यात्मास्तित्वे जन्मान्तरेष्टानिष्टप्राप्तिपरिहारोपायविशेषे च शास्त्रं प्रवर्तते । ‘येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके’ (क. उ. १ । १ । २०) इत्युपक्रम्य ‘अस्तीत्येवोपलब्धव्यः’ (क. उ. २ । ३ । १३) इत्येवमादिनिर्णयदर्शनात् ; ‘यथा च मरणं प्राप्य’ (क. उ. २ । २ । ६) इत्युपक्रम्य ‘योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्’ (क. उ. २ । २ । ७) इति च ; ‘स्वयं ज्योतिः’ (बृ. उ. ४ । ३ । ९) इत्युपक्रम्य ‘तं विद्याकर्मणी समन्वारभेते’ (बृ. उ. ४ । ४ । २) ‘पुण्यो वै पुण्येन कर्मणा भवति पापः पापेन’ (बृ. उ. ३ । २ । १३) इति च ; ‘ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इत्युपक्रम्य ‘विज्ञानमयः’ (बृ. उ. २ । १ । १६) इति च — व्यतिरिक्तात्मास्तित्वम् । तत्प्रत्यक्षविषयमेवेति चेत् , न ; वादिविप्रतिपत्तिदर्शनात् । न हि देहान्तरसम्बन्धिन आत्मनः प्रत्यक्षेणास्तित्वविज्ञाने लोकायतिका बौद्धाश्च नः प्रतिकूलाः स्युः नास्त्यात्मेति वदन्तः । न हि घटादौ प्रत्यक्षविषये कश्चिद्विप्रतिपद्यते, नास्ति घट इति । स्थाण्वादौ पुरुषादिदर्शनान्नेति चेत् , न ; निरूपितेऽभावात् । न हि प्रत्यक्षेण निरूपिते स्थाण्वादौ विप्रतिपत्तिर्भवति । वैनाशिकास्त्वहमिति प्रत्यये जायमानेऽपि देहान्तरव्यतिरिक्तस्य नास्तित्वमेव प्रतिजानते । तस्मात्प्रत्यक्षविषयवैलक्षण्यात् प्रत्यक्षान्नात्मास्तित्वसिद्धिः । तथानुमानादपि । श्रुत्या आत्मास्तित्वे लिङ्गस्य दर्शितत्वात् लिङ्गस्य च प्रत्यक्षविषयत्वात् नेति चेत् , न ; जन्मान्तरसम्बन्धस्याग्रहणात् । आगमेन त्वात्मास्तित्वेऽवगते वेदप्रदर्शितलौकिकलिङ्गविशेषैश्च, तदनुसारिणो मीमांसकास्तार्किकाश्चाहंप्रत्ययलिङ्गानि च वैदिकान्येव स्वमतिप्रभवाणीति कल्पयन्तो वदन्ति प्रत्यक्षश्चानुमेयश्चात्मेति ॥

प्रतिज्ञातं संबन्धं प्रकटयितुमसिद्धप्रमाणभावानां वेदान्तानां संबन्धाभिधानावसराभावात्तत्प्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संबन्धविशेषवचनमुचितमिति मन्वानस्तत्प्रामाण्यं साधयति —

सर्वोऽपीति ।

प्रत्यक्षानुमानाभ्यामित्यागमातिरिक्तप्रमाणोपलक्षणार्थम् । एषोऽर्थोऽध्ययनविध्युपात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञापनपरस्तथा चाज्ञातज्ञापकत्वाविशेषात्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्देतरमानायोग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्वप्रकाशकत्वात् । ‘तमेव भान्तमनुभाति सर्वम्’ (क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽविद्यातत्कार्यातीतत्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३ ) इत्यादिश्रुतेः । एवंरूपो वेदपदवेदनीयश्चिदेकरसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधिवाक्यवत्प्रमाणमिति । अथवा प्रत्यक्षादिनाऽनवगतो योऽसाविष्टप्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यैवाज्ञातत्वात्तत्र कर्मकाण्डं कर्मानुष्ठानप्रयुक्तबुद्धिशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । परमपुरुषस्यौपनिषदत्वश्रवणात् । ‘सर्वे वेदा यत्पदमामनन्ति’ (क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्मकाण्डवज्ज्ञानकाण्डस्यापि प्रामाण्यमिति ।

अधिकारिसौलभ्यप्रतिपादनद्वारा ज्ञानकाण्डप्रामाण्यमेव स्फुटयति —

सर्वपुरुषाणामिति ।

अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरुषाणामनवच्छिन्नसुखादिमात्रेऽभिलाषोपलम्भात्तन्मात्रस्य च मोक्षत्वात्तकामिनो ज्ञानकाण्डाधिकारिणः सुलभत्वात्तस्मिन्प्रमां स्वार्थविषयामादधत्कथं तदप्रमाणमिति ।

ननु वेदस्य कार्यपरतया प्रामाण्यात्कर्मकाण्डवत्काण्डान्तरस्यापि कार्यपरतया प्रामाण्यमेष्टव्यमिति नेत्याह —

दृष्टविषय इति ।

क्रियाकारकफलेतिकर्तव्यतानामन्यतमस्मिन्कार्ये समीहितप्राप्त्याद्युपायभूते व्युत्पत्तिकाले प्रत्यक्षादिसिद्धे तथाविधकार्यधियोऽन्यथालब्धत्वात्तत्र नाऽऽगमोऽनुसन्धेयः । न हि लोकवेदयोस्तद्भिद्यते अलौकिके तस्मिन्नव्युत्पत्तिप्रसंगात् । नचाव्युत्पन्नानि पदानि बोधकान्यतिप्रसंगात् । न च ब्रह्मण्यपि तुल्या व्युत्पत्त्यनुपपत्तिः । तस्मिन्ब्रह्मत्वेनाऽऽत्मत्वेन च प्रसिद्धेः । तत्तत्सामान्योपाधौ विज्ञानादिपदानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लुण्ठितसामान्यविशेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।

किं च तिष्ठतु वेदान्तप्रामाण्यं कर्मकाण्डेऽपि व्यतिरिक्तात्मास्तित्वादौ सिद्धेऽर्थे प्रामाण्यमावश्यकम् । तदभावे तत्प्रामाण्यायोगात् । न हि भविष्यद्देहसंबन्ध्यात्मसद्भावानधिगमे पारलौकिकप्रवृत्तिविश्रम्भः । तस्मात्कर्मकाण्डप्रामाण्यमिच्छता सिद्धेऽर्थे भविष्यद्देहसंबन्धिन्यात्मनि स्वर्गादौ च तत्प्रामाण्यस्याभ्युपेयत्वात्कार्ये वेदप्रामाण्यानियमाद्वेदान्तानामपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —

न चेति ।

ननु देहान्तरसंबन्ध्यात्मज्ञानं विनाऽपि विधिवशाददृष्टार्थक्रियासु प्रवृत्तिः स्यादिति नेत्याह —

स्वभावेति ।

यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रान्मानान्तराच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षापूर्वकारी यागाद्यनुतिष्ठेत् । लोकायतस्य व्यतिरिक्तात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टप्राप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेर्दर्शनात् । अतो नातिरिक्तात्मज्ञानं विना साम्परायिके प्रवृत्तिरित्यर्थः ।

ननु विधयः साधनविशेषं बोधयन्तो नातिरिक्तात्मास्तित्त्ववादौ मानं वाक्यभेदप्रसंगादित्यत आह —

तस्मादिति ।

अतिरिक्तात्मधियं विना पारलौकिकप्रवृत्त्यनुत्पत्त्या कर्मकाण्डप्रामाण्यायोगादिति यावत् । विधीनां श्रुत्यर्थाभ्यामुभयार्थत्वमविरुद्धमित्यर्थः ।

न केवलं विधिभिरेवार्थादाक्षिप्तमतिरिक्तात्मास्तित्वं किन्तु श्रुत्याऽपि स्वमुखेनोक्तमित्याह —

येयमिति ।

निर्णयदर्शनाद्व्यतिरिक्तात्मास्तित्वमिति संबन्धः ।

तत्रैव प्रकृतोपयोगित्वेनोपक्रमोपसंहारान्तरे दर्शयति —

यथा चेति ।

पूर्ववदेव संबन्धद्योतनार्थं चकारः उपक्रमोपसंहारैकरूप्यात्कठवल्लीनामतिरिक्तात्मास्तित्वे तात्पर्यमुक्त्वा बृहदारण्यकवाक्यस्यापि तत्र तात्पर्यमाह —

स्वयमिति ।

न हि प्रसिद्धजडत्वस्य देहादेः स्वयञ्ज्योतिष्ट्वमिति ज्योतिर्ब्राह्मणगतोपक्रमस्तद्विषयो देहादिव्यतिरिक्तात्मानमधिकरोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फलदानायानुगच्छतः । स च गत्वा ज्ञानकर्मानुगुणं फलमनुभवतीति शारीरकब्राह्मणगतोपसंहारोऽपि जन्मान्तरसंबन्धविषयः । न चात्रैव भस्मीभवतो देहादेर्जन्मान्तरसंबन्धो युक्तः । तेनाऽऽत्मा देहादिव्यतिरिक्तो जन्मान्तरसंबन्धी सिद्धो ब्राह्मणाभ्यामित्यर्थः ।

अजातशत्रुब्राह्मणे च व्येव त्वा ज्ञपयिष्यामीत्युपक्रमो व्यतिरिक्तात्मास्तित्वविषयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञानमयविशेषणादतिरिक्तात्मास्तित्वं दर्शितं न हि देहादेर्विज्ञानमयत्वमस्ति तस्मात्तदप्युपक्रमोपसम्हाराभ्यां व्यतिरिक्तात्मास्तित्वं गमयतीत्याह —

ज्ञपयिष्यामीत्युपक्रम्येति ।

नचोदाहृतानां वाक्यानामप्रामाण्यम् । तत्प्रामाण्यस्यौत्पत्तिकसूत्रहेत्वविशेषादभ्युपेयत्वादिति भावः ।

यथोक्तात्मन्यहम्प्रत्ययो मानं तत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्युपपत्तेरतो न तत्र श्रुतिप्रामाण्यमिति शङ्कते —

तत्प्रत्यक्षेति ।

प्रत्यक्षस्य विषयोऽवकाशो यस्मिन्नित्यतिरिक्तात्मास्तित्वमुच्यते ।

यद्यपि व्यतिरिक्तात्मास्तित्वं त्वदभिप्रायेणाहन्धीगोचर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्यागमविवेकशून्यानामहम्प्रत्ययभाजां व्यतिरेकप्रत्ययप्राप्तौ विपश्चितां विप्रतिपत्त्यभावप्रसंगादिति परिहरति —

न वादीति ।

वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —

न हीति ।

तेषु प्रातिकूल्यसंभावनार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेदनस्यैवासंभवादध्यक्षविरोधादिति योजना ।

प्रत्यक्षे विषये विप्रतिपत्त्यभावे दृष्टान्तमाह —

न हीति ।

तत्र व्यभिचारं शङ्कते —

स्थाण्वादाविति ।

प्रत्यक्षे धर्मिणि स्थाणुर्वापुरुषो वेति विप्रतिपत्तेरुपलम्भान्न प्रत्यक्षे विप्रतिपत्त्यभावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजादिविप्रतिपत्तिः संगृह्यते ।

किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽङ्गीकारात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —

नेत्यादिना ।

प्रत्यक्षतो विविक्तेऽर्थे विप्रतिपत्त्यभावं प्रपञ्चयति —

न हीति ।

आत्मनः स्थूलदेहव्यतिरिक्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्मदेहव्यतिरिक्तत्वमपि नाहम्प्रत्ययग्राह्यमित्याह —

वैनाशिकास्त्विति ।

ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूलदेहातिरिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धेरतिरिक्तस्याऽत्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्मदेहातिरिक्तात्मसिद्धिरित्यर्थः ।

किं च प्रत्यक्षस्य विषयो रूपादिस्तद्राहित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अशब्दमस्पर्शमरूपम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहाद्यतिरिक्तात्मास्तित्वस्य प्रत्यक्षात्प्रसिद्धिरित्याह —

तस्मादिति ।

प्रत्यक्षतो विविक्ते विप्रतिपत्त्ययोगात् । प्रकृते च तद्दर्शनादिति यावत् ।

अथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदित्यनुमानादतिरिक्तात्मसिद्धिरिति नेत्याह —

तथेति ।

नाऽऽत्मास्तित्वप्रसिद्धिरिति संबन्धार्थस्तथाशब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये परस्पराश्रयत्वमाधारस्येदानीमेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्रयमात्रवचने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्धत्वादात्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।

’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राणनादिव्यापाराख्यस्य लिङ्गस्याऽऽत्मास्तित्वे प्रदर्शितत्वात्तस्य च व्याप्तिसापेक्षस्य प्रत्यक्षादिसिद्धात्मविषयत्वान्न तस्य शब्दैकगम्यतेति शङ्कते —

श्रुत्येति ।

आत्मनः स्वातन्त्र्येण लिङ्गगम्यत्वाभिप्रायेण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —

नेति ।

योऽचेतनव्यापारः स चेतनाधिष्ठानपूर्वको यथा रथादिव्यापारः । प्राणनादिव्यापारस्याप्यचेतनव्यापारत्वाच्चेतनाधिष्ठानपूर्वकत्वमिति संभावनामात्रेण लिङ्गोपन्यासः ।

न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मान्तरसंबन्धस्य प्रमाणान्तरेणाग्रहणात्तद्व्याप्तलिङ्गायोगादित्याह —

जन्मान्तरेति ।

ननु व्यतिरिक्तात्मास्तित्वमागमैकगम्यं चेत्कथं तत्प्रत्यक्षमनुमेयं चेति वादिनो वदन्तीति तत्राऽऽह —

आगमेन त्विति ।

’येयं प्रेते विचिकित्से’त्याद्यागमेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्यादिवेदोक्तैश्च प्राणनादिभिर्लौकिकैर्लिङ्गविशेषैरात्मास्तित्वे सिद्धे यथोक्तात्मसिद्धिमनुसरन्तो वादिनो वैदिकमेवाहम्प्रत्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रेक्षानिर्मितानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तुतस्त्वात्मा यथोक्तश्रुत्यैकसमधिगम्य इत्यर्थः ।