सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते —
स तस्मिन्निति ।
अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह —
उच्यत इति ।
वीतदेहस्य कामनाऽयुक्तेति शङ्कते —
कथमिति ।
सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते —
मेध्यमिति ।
कामनाफलमाह —
इति प्रविवेशेति ।
तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह —
यस्मादिति ।
यच्छब्दो यस्मादिति व्याख्यातः ।
देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह —
तत इति ।
अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः ।
तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह —
यस्माच्चेति ।
क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः ।
ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह —
क्रियेति ।