बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःद्वितीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
सोऽकामयत मेध्यं म इदं स्यादात्मन्व्यनेन स्यामिति । ततोऽश्वः समभवद्यदश्वत्तन्मेध्यमभूदिति तदेवाश्वमेधस्याश्वमेधत्वम् । एष ह वा अश्वमेधं वेद य एनमेवं वेद । तमनवरुध्यैवामन्यत । तं संवत्सरस्य परस्तादात्मन आलभत । पशून्देवताभ्यः प्रत्यौहत् । तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते । एष ह वा अश्वमेधो य एष तपति तस्य संवत्सर आत्मायमग्निरर्कस्तस्येमे लोका आत्मानस्तावेतावर्काश्वमेधौ । सो पुनरेकैव देवता भवति मृत्युरेवाप पुनर्मृत्युं जयति नैनं मृत्युराप्नोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ॥ ७ ॥
क्रतुनिर्वर्तकस्याश्वस्य प्रजापतित्वमुक्तम् — ‘उषा वा अश्वस्य मेध्यस्य’ (बृ. उ. १ । १ । १) इत्यादिना । तस्यैवाश्वस्य मेध्यस्य प्रजापतिस्वरूपस्य अग्नेश्च यथोक्तस्य क्रतुफलात्मरूपतया समस्योपासनं विधातव्यमित्यारभ्यते । पूर्वत्र क्रियापदस्य विधायकस्याश्रुतत्वात् , क्रियापदापेक्षत्वाच्च प्रकरणस्य, अयमर्थोऽवगम्यते । एष ह वा अश्वमेधं क्रतुं वेद य एनमेवं वेद — यः कश्चित् , एनम् अश्वमग्निरूपमर्कं च यथोक्तम् , एवं वक्ष्यमाणेन समासेन प्रदर्श्यमानेन विशेषणेन विशिष्टं वेद, स एषोऽश्वमेधं वेद, नान्यः ; तस्मादेवं वेदितव्य इत्यर्थः । कथम् ? तत्र पशुविषयमेव तावद्दर्शनमाह । तत्र प्रजापतिः ‘भूयसा यज्ञेन भूयो यजेय’ इति कामयित्वा, आत्मानमेव पशुं मेध्यं कल्पयित्वा, तं पशुम् , अनवरुध्यैव उत्सृष्टं पशुमवरोधमकृत्वैव मुक्तप्रग्रहम् , अमन्यत अचिन्तयत् । तं संवत्सरस्य पूर्णस्य परस्तात् ऊर्ध्वम् आत्मने आत्मार्थम् आलभत — प्रजापतिदेवताकत्वेनेत्येतत् — आलभत आलम्भं कृतवान् । पशून् अन्यान्ग्राम्यानारण्यांश्च देवताभ्यः यथादैवतं प्रत्यौहत् प्रतिगमितवान् । यस्माच्चैवं प्रजापतिरमन्यत, तस्मादेवमन्योऽप्युक्तेन विधिना आत्मानं पशुमश्वं मेध्यं कल्पयित्वा, ‘सर्वदेवत्योऽहं प्रोक्ष्यमाणः’ आलभ्यमानस्त्वहं मद्देवत्य एव स्याम् ; अन्य इतरे पशवो ग्राम्यारण्या यथादैवतमन्याभ्यो देवताभ्य आलभ्यन्ते मदवयवभूताभ्य एव’ इति विद्यात् । अत एवेदानीं सर्वदेवत्यं प्रोक्षितं प्राजापत्यमालभन्ते याज्ञिका एवम् । एष ह वा अश्वमेधो य एष तपति, यस्त्वेवं पशुसाधनकः क्रतुः स एष साक्षात्फलभूतो निर्दिश्यते, एष ह वा अश्वमेधः ; कोऽसौ ? य एषः सविता तपति जगदवभासयति तेजसा ; तस्य अस्य क्रतुफलात्मनः, संवत्सरः कालविशेषः, आत्मा शरीरम् , तन्निर्वर्त्यत्वात्संवत्सरस्य ; तस्यैव क्रत्वात्मनः अयं पार्थिवोऽग्निः, अर्कः, साधनभूतः ; तस्य चार्कस्य क्रतौ चित्यस्य, इमे लोकास्त्रयोऽपि, आत्मानः शरीरावयवाः ; तथा च व्याख्यातम् — ‘तस्य प्राची दिक्’ इत्यादिना ; तावग्न्यादित्यावेतौ यथाविशेषितावर्काश्वमेधौ क्रतुफले ; अर्को यः पार्थिवोऽग्निः स साक्षात्क्रतुरूपः क्रियात्मकः ; क्रतोरग्निसाध्यत्वात्तद्रूपेणैव निर्देशः ; क्रतुसाध्यत्वाच्च फलस्य क्रतुरूपेणैव निर्देशः — आदित्योऽश्वमेध इति । तौ साध्यसाधनौ क्रतुफलभूतावग्न्यादित्यौ — सा उ, पुनः भूयः, एकैव देवता भवति ; का सा ? मृत्युरेव ; पूर्वमप्येकैवासीत्क्रियासाधनफलभेदाय विभक्ता ; तथा चोक्तम् ‘स त्रेधात्मानं व्यकुरुत’ इति ; सा पुनरपि क्रियानिर्वृत्त्युत्तरकालमेकैव देवता भवति — मृत्युरेव फलरूपः ; यः पुनरेवमेनमश्वमेधं मृत्युमेकां देवतां वेद — अहमेव मृत्युरस्म्यश्वमेध एका देवता मद्रूपाश्वाग्निसाधनसाध्येति ; सोऽपजयति, पुनर्मृत्युं पुनर्मरणम् , सकृन्मृत्वा पुनर्मरणाय न जायत इत्यर्थः ; अपजितोऽपि मृत्युरेनं पुनराप्नुयादित्याशङ्क्याह — नैनं मृत्युराप्नोति ; कस्मात् ? मृत्युः, अस्यैवंविदः, आत्मा भवति ; किञ्च मृत्युरेव फलरूपः सन्नेतासां देवतानामेको भवति ; तस्यैतत्फलम् ॥

ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —

क्रतुनिर्वर्तकस्येति ।

उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।

अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —

तस्यैवेति ।

य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —

पूर्वत्रेति ।

यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।

तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —

एष इति ।

यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।

विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —

तस्मादिति ।

अश्वमेधो विशेष्यत्वेन संबध्यते ।

एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —

कथमिति ।

एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —

तत्रेत्यादिना ।

उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।

कथं नु पशुविषयं दर्शनं तद्दर्शयति —

तत्रेति ।

एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।

अथ विवक्षितविधिमभिदधाति —

यस्माच्चेति ।

प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —

अत एवेति ।

प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।

उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —

एष इति ।

द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।

विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —

कोऽसाविति ।

क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —

तस्यास्येति ।

आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।

क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —

तस्यैवेति ।

ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —

तस्य चेति ।

तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —

तथा चेति ।

तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।

अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —

ताविति ।

यथाविशेषितत्वमादित्यरूपत्वम् ।

कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —

क्रियात्मक इति ।

तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

ताविति ।

क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।

एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —

का सेति ।

कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —

पूर्वमपीति ।

उक्तेऽर्थे वाक्योपक्रममनुकूलयति —

तथा चेति ।

पुनरित्यादेरर्थं निगमयति —

सा पुनरिति ।

ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —

यः पुनरिति ।

एकत्वमभिन्नत्वम् ॥७॥