किमनया कथया सिद्धमित्याशङ्क्याऽऽह —
यस्मादिति ।
उपलब्धिसिद्धेऽर्थे युक्तिं समुच्चिनोति —
विशेषेति ।
सर्वानेव वागादीनविशेषेणाग्न्यादिभावेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्तितोऽप्ययमास्यान्तराकाशे वर्तमानः सिद्ध इत्यर्थः ।
अयास्यत्ववदाङ्गिरसत्वं गुणान्तरं दर्शयति —
अत एवेति ।
सर्वसाधारणत्वादेवेति यावत् ।
तथाऽपि कुतोऽस्याङ्गिरसत्वं साधारणेऽपि नभसि तदनुपलब्धेरित्याशङ्क्य परिहरति —
कथमित्यादिना ।
अङ्गेषु चरमधातोः सारत्वप्रसिद्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते —
कथं पुनरित्यादिना ।
कस्माच्च हेतोरित्यादिचोद्यपरिहारमुपसम्हरति —
यस्माच्चेति ।
वाक्यार्थं प्रपञ्चयति —
आत्मा हीति ॥८॥