तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुनरुक्तिरित्याशङ्क्याऽऽह —
उत्तरार्थमिति ।
प्रतिज्ञानुवादो वक्ष्यमाणहेतोरुपयोगीत्यर्थः ।
यथोपन्यस्तमेवेत्यादि प्रपञ्चयति —
प्राणो वा इति ।
उक्तार्थनिर्णयहेतुं पृच्छति —
कथमिति ।
तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति —
प्राणो हीति ।
प्रसिद्धिमेव प्रकटयति —
प्रसिद्धिमिति ।
स्मारणं प्रसिद्धस्याऽऽङ्गिरसत्वस्येति शेषः ।
प्रसिद्धिरसिद्धेति शङ्कते —
कथमिति ।
तामन्वयव्यतिरेकाभ्यां साधयति —
अत आहेति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यस्मात्कस्मादिति ।
उक्तेन व्यतिरेकेणानुक्तमन्वयं समुच्चेतुं चशब्दः ।
तस्माच्छब्दस्योपरिभावेन संबन्धमुक्तं स्फुटयति —
तस्मादिति ।
अन्वयव्यतिरेकाभ्यामङ्गरसत्वे प्राणस्य सिद्धे फलितमाह —
अत इति ।
उक्तन्यायादङ्गरसत्वे सिद्धेऽपि कथमात्मत्वं सिध्येदित्याशङ्क्याऽऽह —
आत्मेति ।
अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह —
तस्मादिति ।
भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यैवोपास्यत्वमित्याशङ्क्याऽऽह —
तस्मादपास्येति ॥१९॥