‘बृहस्पतिर्देवानां पुरोहित आसीत्’(जैमिनीयब्रा.०१-१२५) इति श्रुतेर्देवपुरोहितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते —
कथमिति ।
देवपुरोहितं व्यावर्तयितुमुत्तरवाक्येनोत्तरमाह —
उच्यत इति ।
प्रसिद्धवचनं कथमित्याशङ्क्याऽऽह —
बृहतीछन्द इति ।
सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धेत्यर्थः ।
भवतु यथोक्ता बृहती तथाऽपि कथम् ‘वाग्वै बृहती’(श.ब्रा.१४.४.१.२२) इत्युक्तं तत्राऽऽह —
अनुष्टुप् चेति ।
द्वात्रिंशदक्षरा तावदनुष्टुबिष्टा, सा चाष्टाक्षरैश्चतुर्भिः पादैः षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवत्यवान्तरसंख्याया महासंख्यायामन्तर्भावादित्याह —
सा चेति ।
वागनुष्टुभोरनुष्टुब्बृहत्योश्चोक्तमैक्यमुपजीव्य फलितमाह —
अत इति ।
भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथमृक्पतित्वमित्याशङ्क्याऽऽह —
बृहत्यां चेति ।
सर्वात्मकप्राणरूपेण बृहत्याः स्तुतत्वात्तत्र सर्वासामृचामन्तर्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्धमृक्पतित्वमित्यर्थः ।
प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह —
प्राणो बृहतीति ।
तथाऽपि प्राणस्य विवक्षितमृगात्मत्वं कथं सिद्ध्यतीत्याशङ्क्याऽऽह —
प्राण इति ।
तस्य तदात्मत्वे हेत्वन्तरमाह —
वागात्मत्वादिति ।
तासां तदात्मत्वेऽपि कथं प्राणेऽन्तर्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।
प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।
प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते —
तत्कथमिति ।
प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —
आहेत्यादिना ।
प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह —
कौष्ठ्येति ।
कोष्ठनिष्ठेनाग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छन्कण्ठादिभिरभिहन्यमानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽन्तर्भूतत्वमित्यर्थः ।
ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति —
पालनाद्वेति ।
सत्ताप्रदत्वे सति स्थापकत्वं तादात्म्यव्याप्तमित्यभिप्रेत्योपसंहरति —
तस्मादिति ॥२०॥
यजुषामात्मेति पूर्वेण संबन्धः ।