रूढिमाश्रित्य शङ्कते —
कथं पुनरिति ।
वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति —
उच्यत इति ।
वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना ।
तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह —
तथा चेति ।
परिशेषमेव दर्शयति —
साम्नीति ।
इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह —
वाग्विशेषत्वाच्चेति ।
तत्रैव हेत्वन्तरमाह —
अविशेषेति ।
प्रसंगमेव व्यतिरेकमुखेन विवृणोति —
सामेति ।
द्वितीयश्चकारोऽवधारणार्थः ।
किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह —
वाङ्मात्रत्वे चेति ।
तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —
ऋगिति ॥२१॥