क्रियापदनिष्पत्तिप्रकारं सूचयति —
तोरिति ।
तुप्रत्ययस्यायमाशिषि विषये तातङादेशः ‘तुह्योस्तातङाशिष्यन्यतरस्याम्’(पा.सू. ७।१।३५.) इति स्मरणादित्यर्थः ।
मूर्धपातप्रापकं दर्शयति —
यदीति ।
अनृतवादित्वस्य प्रापकाभावादप्राप्तिरिति शङ्कते —
कथं पुनरिति ।
उद्गानस्य बुद्ध्यादिसन्निधानात्तद्देवता प्रजापत्यादिलक्षणा किं तस्मिन्देवता किंवा वर्णस्वरादिसन्निधानात्तद्देवतैव तत्र देवतेति विप्रतिपत्तेरनृतवादित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह —
उच्यत इति ।
प्राणाद्वाक्संयुक्तादन्येनायास्यो यद्युदगायदिति संबन्धः ।
नन्वयास्याङ्गिरसशब्दवाच्यो मुख्यप्राणो देवतात्वान्नोद्गाता भवितुमुत्सहते तत्राऽऽह —
मुख्येति ।
उक्तार्थदार्ढ्यायेत्युक्तमुपसम्हरति —
इति विज्ञान इति ।
उक्तरीत्या शपथक्रियया प्राण एवोद्गीथदेवतेत्यस्मिन्विज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्तव्यत्वमाख्यायिकया दर्शयति श्रुतिरिति यावत् ।
आख्यायिकार्थस्यैव वाचेत्यादिनोक्तेः पौनरुक्त्यमित्याशङ्क्याऽऽह —
तमिममिति ।
शपथस्य स्वातन्त्र्येणाप्रामाण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥