आपातिकमनापातिकञ्च तात्पर्यमुक्त्वा प्रतीकमादायाक्षराणि व्याकरोति —
आत्मैवेति ।
तस्याश्वमेधाधिकारे प्रकृतत्वं सूचयति —
अण्डज इति ।
पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तुतत्वमस्तीत्याह —
वैदिकेति ।
स एवाऽऽसीदिति संबन्धः ।
स्थित्यवस्थायामपि प्रजापतिरेव समष्टिदेहस्तत्तद्व्यष्ट्यात्मना तिष्ठतीति विशेषासिद्धिरित्याशङ्क्याऽऽह —
तेनेति ।
आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्यशेषादित्याह —
स चेति ।
वक्ष्यमाणमन्वालोचनादि विराडात्मकर्तृकमेवेत्याह —
स एवेति ।
स्वरूपधर्मविषयौ द्वौ विमर्शौ ।
नान्यदिति वाक्यमादायाक्षराणि व्याचष्टे —
वस्त्वन्तरमिति ।
दर्शनशक्त्यभावादेव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वानित्याशङ्क्याऽऽह —
केवलं त्विति ।
सोऽहमित्यादि व्याचष्टे —
तथेति ।
यथा सर्वात्मा प्रजापतिरहमिति पूर्वस्मिञ्जन्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना ।
व्याहरणफलमाह —
तत इति ।
किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वेषामित्याशङ्क्योपासनार्थमित्याह —
तस्येति ।
आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुतिसिद्धमेवैतन्नामास्य ध्यानार्थमिहोक्तमित्यर्थः ।
प्रजापतेरहंनामत्वे लोकप्रसिद्धिं प्रमाणयितुमुत्तरं वाक्यमित्याह —
तस्मादिति ।
उपासनार्थं प्रजापतेरहंनामोक्त्वा पुरुषनामनिर्वचनं करोति —
स चेत्यादिना ।
पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमहमिकया प्रजापतित्वप्रेप्सूनां मध्ये पूर्वो यः सम्यक्कर्माद्यनुष्ठानैः सर्वं प्रतिबन्धकं यस्माददहत्तस्मात्स प्रजापतिः पुरुषः इति योजना ।
उक्तमेव स्फुटयति —
प्रथमः सन्निति ।
सर्वस्मादस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्प्रथमः सन्नौषदिति संबन्धः ।
आकाङ्क्षापूर्वकं दाह्यं दर्शयति —
किमित्यादिना ।
पूर्वं प्रजापतित्वप्रतिबन्धकप्रध्वंसित्वे सिद्धमर्थमाह —
यस्मादिति ।
पुरुषगुणोपासकस्य फलमाह —
यथेति ।
अयं प्रजापतिरिति भविष्यद्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते ।
कोऽसावोषतीत्यपेक्षायामाह —
तं दर्शयतीति ।
पुरुषगुणः प्रजापतिरहमस्मीति यो विद्यात्सोन्यानोषतीत्यर्थः ।
विद्यासाम्ये कथमेषा व्यवस्थेत्याशङ्क्याऽऽह —
सामर्थ्यादिति ।
हेतुसाम्ये दाहकत्वानुपपत्तेस्तत्प्रकर्षवानितरान्दहतीत्यर्थः ।
प्रसिद्धं दाहमादाय चोदयति —
नन्विति ।
तथा च तत्प्रेप्सायोगात्तदुपास्त्यसिद्धिरित्यर्थः ।
विवक्षितं दाहं दर्शयन्नुत्तरमाह —
नैष दोष इति ।
तदेव स्पष्टयति —
उत्कृष्टेति ।
प्राप्नुवन्भवतीति शेषः ।
औपचारिकं दाहं दृष्टान्तेन साधयति —
यथेति ।
आजिर्मर्यादा तां सरन्ति धावन्तीत्याजिसृतस्तेषामिति यावत् ॥१॥