’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह —
कथमिति ।
तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह —
यद्यपीति ।
शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह —
उत्पाद्येति ।
ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।
वाक्यद्वये वीप्सा विवक्षितेत्याह —
तामिति ।
तामेवाभिनयति —
तामजामिति ।
तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् ।
विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति —
एवमेवेति ।
तद्विभजते —
इदं मिथुनमिति ।
पशुकर्मप्रयोगो न्यायः ॥४॥