यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह —
अर्थ बलाद्धीति ।
अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः ।
नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह —
अग्निरपीति ।
सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः ।
प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —
एवमिति ।
अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —
सैषेति ।
’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते —
कथमिति ।
प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति —
अत आहेति ।
देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् ।
अतिसृष्ट्यामित्यादि व्याचष्टे —
तस्मादिति ।
देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥