संप्रति प्रतीकमादाय पदानि व्याचष्टे —
तद्धेत्यादिना ।
अप्रत्यक्षाभिधानेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः ।
कथं जगतो बीजावस्थत्वमित्याशङ्क्य तर्हीत्यस्यार्थमाह —
प्रागिति ।
कथं तस्य परोक्षत्वं तत्राऽऽह —
भूतेति ।
निपातार्थमाह —
सुखेति ।
हशब्दार्थमभिनयति —
किलेति ।
यथावर्णितमित्यनर्थत्वेन संसारेऽसारत्वोक्तिः ।
पदद्वयसामानाधिकरण्यलब्धमर्थमाह —
तदिदमिति ।
एकत्वभिनयेनोदाहरति —
तदेवेति ।