परमात्मा स्रष्टा सृष्टे प्रविष्टो जगतीत्यादिष्टमाक्षिपति —
नन्विति ।
पूर्वापरविरोधं समाधत्ते —
नेत्यादिना ।
व्याक्रियतेति कर्मकर्तृप्रयोगाज्जगत्कर्तुरविवक्षितत्वमुक्तमित्याशङ्क्याह —
आक्षिप्तेति ।
मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तरि लकारो व्याकरणसौकर्यापेक्षया सत्येव कर्तरि निर्वहतीति भावः ।
अव्याकृतशब्दस्य नियन्त्रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह —
इदंशब्देति ।
कथमुक्तसामानाधिकरण्यमात्रादव्याकृतस्य जगतो नियन्त्रादियुक्तत्वं तत्राऽऽह —
यथेति ।
नियन्त्रादीत्यादिशब्देन कर्तृकरणादिग्रहणम् । निमित्तादीत्यादिपदेनोपादानमुच्यते । विमतं नियन्त्रादिसापेक्षं कार्यत्वात्संप्रतिपन्नवदित्यर्थः ।
कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह —
व्याकृतेति ।
कथं पुनरव्याकृतशब्देन जगद्वाचिना परो गृह्यत एकस्य शब्दस्यानेकार्थत्वायोगादत आह —
दृष्टश्चेति ।
उक्तमेव स्फुटयति —
कदाचिदिति ।
उभयविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —
तद्वदिति ।
इहेत्यव्याकृतवाक्योक्तिः ।
निवासमात्रविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —
तथेति ।
निवासिजनविवक्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति —
तथा महानिति ।