ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति —
ब्रह्मणीति ।
न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः ।
तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —
न ब्राह्मणीति ।
नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः ।
ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति —
न हीति ।
मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।
कल्पान्तरमालम्बते —
न ब्रूम इति ।
ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा ? तत्राऽद्यमङ्गीकरोति —
भवत्विति ।
अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः ।
द्वितीयं प्रत्याह —
किं त्विति ।
ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति —
नान्योऽतोऽस्तीत्यादिना ।
ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —
यस्त्विति ।
ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते —
नन्विति ।
किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति —
बाढमिति ।
द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् ।
उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —
अवगमेति ।
अनुभवमनुसृत्य परिहरति —
न । अनवगमेति ।
सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते —
तन्निवृत्तेरिति ।
अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह —
न दृष्टेति ।
दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह —
दृश्यमानमिति ।
दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —
न चेति ।
अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह —
न चेति ।
युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते —
दर्शनेति ।
दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति —
तत्रापीति ।
अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः ।