परपक्षं निराकृत्य स्वपक्षं दर्शयति —
तस्मादिति ।
तद्व्यतिरेकेण जगन्नास्तीति सूचयति —
वैशब्द इति ।
तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति —
इदमिति ।
तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —
प्रागिति ।
तस्यापरिच्छिन्नत्वमाह —
सर्वं चेति ।
कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह —
किन्त्विति ।
यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह —
परमार्थतस्त्विति ।
तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् ।
किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —
तत्कथञ्चिदिति ।
पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः ।
आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह —
अविद्येति ।