वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते —
तत्कथमिति ।
तदक्षराणि व्याचष्टे —
दृष्टेरिति ।
इतिपदमवेदित्यनेन संबध्यते ।
ब्रह्मशब्दं व्याचष्टे —
ब्रह्मेतीति ।
ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह —
तदेवेति ।
आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति —
यथेति ।
इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः ।
इदानीं फलवाक्यं व्याचष्टे —
तस्मादिति ।
सर्वभावमेव व्याकरोति —
अब्रह्मेति ।
ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति —
तस्माद्युक्तमिति ।
वृत्तं कीर्तयति —
यत्पृष्टमिति ।