कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति —
यदुक्तमिति ।
तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —
कस्मादिति ।
आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः ।
उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते —
कथमित्यादिना ।
ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह —
अत इति ।
देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह —
यत्रेति ।
यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः ।
उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे —
तदेतदाहेति ।
कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह —
अविद्यामात्रेति ।
यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः ।
उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —
अत इति ।
कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह —
यस्य हीति ।
तेषां निरङ्कुशप्रसरत्वं वारयति —
नत्विति ।
सफलः प्रयत्न इति पूर्वेणसंबन्धः ।
तस्य निरवकाशत्वादिति हेतुमाह —
अवसरेति ।