कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह —
क्षत्र इति ।
तद्व्याचष्टे —
कर्मण इति ।
ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् ।
कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह —
स विशमिति ।
देवजातानीत्यत्र तकारो निष्ठा ।
गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह —
गणेति ।
विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —
प्रायेणेति ॥१२॥