अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति —
अत्रेति ।
सप्तमी तस्मादित्यादिवाक्यविषया ।
प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति —
तदसदिति ।
कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् ।
वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह —
परेण चेति ।
तदेव प्रपञ्चयति —
यदि हीति ।
परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह —
स्वलोकेति ।
परशब्दोऽनात्मविषयः ।
ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह —
स्वत्वेन चेति ।
कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह —
अविद्येति ।
तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —
ब्रवीति चेति ।