आध्यात्मिकप्राणविषयं वाक्यमवतार्य व्याकरोति —
अथेति ।
मुखादौ संचार्या संचरणार्हा हृदयसंबन्धिनी या वायुवृत्तिः, तत्र प्राणशब्दप्रवृत्तौ निमित्तमाह —
प्रणयनादिति ।
पुरतो निःसरणादिति यावत् । हृदयादधो देशे वृत्तिरस्येत्यधोवृत्तिरानाभिस्थानो हृदयादारभ्य नाभिपर्यन्तं वर्तमान इति यावत् । व्यायमनं प्राणापानयोर्नियमनं कर्मास्येति तथोक्तः । वीर्यवत्कर्मारण्यामग्न्युत्पादनादि । उत्कर्षो देहे पुष्टिः । आदिपदेनोत्क्रान्तिरुक्ता ।
प्राणशब्देनानशब्दस्य पुनरुक्तिमाशङ्क्याऽऽह —
अन इत्येषामिति ।
तथाऽपि तृतीयस्य प्राणशब्दस्य ताभ्यां पुनरुक्तिरित्याशङ्क्याऽऽह —
प्राण इतीति ।
साधारणासाधारणवृत्तिमान्प्राण इत्यपौनरुक्त्यमित्यर्थः ।
मनसो दर्शनादिवद्वाचोऽभिधेयप्रकाशनवच्च प्राणस्यापि कार्यं वक्तव्यमित्याशङ्क्याऽऽह —
कर्म चेति ।
एतन्मय इत्यत्र मयटो विकारार्थत्वं वृत्तसंकीर्तनपूर्वकं कथयति —
व्याख्यातानीति ।
आध्यात्मिकानां वागादीनामनारम्भकत्वं वारयति —
प्राजापत्यैरिति ।
आरब्धस्वरूपं प्रश्नपूर्वकमनन्तरवाक्येन निर्धारयति —
कोऽसाविति ।
कार्यकरणसंघाते कथमात्मशब्दप्रवृत्तिरित्याशङ्क्याऽऽह —
आत्मस्वरूपत्वेनेति ।
वाङ्मय इत्यादिवाक्यस्य पूर्वेण पौनरुक्त्यमाशङ्क्याऽऽह —
अविशेषेणेति ॥३॥