समनन्तरसन्दर्भस्य तात्पर्यमुक्त्वा वाक्याक्षराणि योजयति —
तस्या इति ।
कथमाधाराधेयभावो वाचो निर्दिश्यते तत्राऽऽह —
द्विरूपा हीति ।
उक्तमर्थं संक्षिप्य निगमयति —
तदुभयमिति ।
अध्यात्ममधिभूतं च या वाक्परिच्छिन्ना तस्यास्तुल्यपरिणामित्वमाधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह दर्शयति —
तत्तत्रेति ।
तावानयमग्निरिति प्रतीकमादाय व्याकरोति —
आधेय इति ।
समानमुत्तरमित्यस्यायमर्थः अध्यात्ममधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वमुच्यते तथा च वाचा समानं प्राणादावुत्तरवाक्ये कथ्यमानं समानपरिमाणत्वमिति ॥११॥