आधिदैविकयोर्वाङ्मनसयोर्विभूतिनिर्देशानन्तर्यमथेत्युक्तम् । नन्वेतस्येत्येतच्छब्देन प्रजात्वेनोक्तस्य प्राणस्य किमिति न ग्रहणं तत्राऽऽह —
न प्रजेति ।
अन्नत्रयस्य समप्रधानत्वेन प्रकृतत्वादेतच्छब्देन प्रधानपरामर्शोपपत्तौ नाप्रधानं परामृश्यत इत्यर्थः । पूर्ववद्वाचो मनसश्च पृथिवी द्यौश्च शरीरं यथा तथेत्यर्थः ।
द्वैरूप्ये प्राणस्योक्ते व्याप्तिमविशिष्टां व्याचष्टे —
तत्रेति ।
तावानित्यादि प्रतीकमादाय व्याचष्टे —
चन्द्र इति ।
वाङ्मनःप्राणानामाधिदैविकरूपेणोपासनं विधातुं वृत्तं कीर्तयति —
तानीति ।
एतेभ्योऽतिरिक्तमधिष्ठानमस्तीत्याशङ्क्य विशिनष्टि —
कार्यात्मकमिति ।
प्रजापतिरेतेभ्योऽतिरिक्तोऽस्तीत्याशङ्क्याऽऽह —
समस्तानीति ।
सोपस्करं वृत्तमनूद्य वाक्यमादाय व्याचष्टे —
त एत इति ।
तुल्यां व्याप्तिमेव व्यनक्ति —
यावदिति ।
तावदशेषं जगद्व्याप्येति योजना ।
तुल्यव्याप्तिमत्त्वमुपजीव्याऽऽह —
अत एवेति ।
तेषां यावत्संसारभावित्वमभिव्यनक्ति —
न हीति ।
कार्यकरणयोर्यावत्संसारभावित्वेऽपि प्राणानां किमायातमत आह —
कार्येति ।
तेषु परिच्छिन्नत्वेन ध्याने दोषमाह —
स य इति ।
एवं पातनिकां कृत्वा विवक्षितमुपासनामुपदिशति —
अथेति ॥१३॥