बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःषष्ठं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नां वागित्येतदेषामुक्थमतो हि सर्वाणि नामान्युत्तिष्ठन्ति । एतदेषां सामैतद्धि सर्वैर्नामभिः सममेतदेषां ब्रह्मैतद्धि सर्वाणि नामानि बिभर्ति ॥ १ ॥
कथं पुनः अस्य व्याकृताव्याकृतस्य क्रियाकारकफलात्मनः संसारस्य नामरूपकर्मात्मकतैव, न पुनरात्मत्वम् — इत्येतत्सम्भावयितुं शक्यत इति । अत्रोच्यते — तेषां नाम्नां यथोपन्यस्तानाम् — वागिति शब्दसामान्यमुच्यते, ‘यः कश्च शब्दो वागेव सा’ (बृ. उ. १ । ५ । ३) इत्युक्तत्वात् वागित्येतस्य शब्दस्य यो अर्थः शब्दसामान्यमात्रम् एतत् एतेषां नामविशेषाणाम् उक्थं कारणम् उपादानम् , सैन्धवलवणकणानामिव सैन्धवाचलः ; तदाह — अतो हि अस्मान्नामसामान्यात् सर्वाणि नामानि यज्ञदत्तो देवदत्त इत्येवमादिप्रविभगानि उत्तिष्ठन्ति उत्पद्यन्ते प्रविभज्यन्ते, लवणाचलादिव लवणकणाः ; कार्यं च कारणेनाव्यतिरिक्तम् । तथा विशेषाणां च सामान्येऽन्तर्भावात् — कथं सामान्यविशेषभाव इति — एतत् शब्दसामान्यम् एषां नामविशेषाणाम् साम, समत्वात्साम, सामान्यमित्यर्थः ; एतत् हि यस्मात् सर्वैर्नामभिः आत्मविशेषैः समम् । किञ्च आत्मलाभाविशेषाच्च नामविशेषाणाम् — यस्य च यस्मादात्मलाभो भवति, स तेनाप्रविभक्तो दृष्टः, यथा घटादीनां मृदा ; कथं नामविशेषाणामात्मलाभो वाच इत्युच्यते — यत एतदेषां वाक्शब्दवाच्यं वस्तु ब्रह्म आत्मा, ततो ह्यात्मलाभो नाम्नाम् , शब्दव्यतिरिक्तस्वरूपानुपपत्तेः ; तत्प्रतिपादयति — एतत् शब्दसामान्यं हि यस्मात् शब्दविशेषान् सर्वाणि नामानि बिभर्ति धारयति स्वरूपप्रदानेन । एवं कार्यकारणत्वोपपत्तेः सामान्यविशेषोपपत्तेः आत्मप्रदानोपपत्तेश्च नामविशेषाणां शब्दमात्रता सिद्धा । एवमुत्तरयोरपि सर्वं योज्यं यथोक्तम् ॥

उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमाणाभावादयुक्तमिति शङ्कते —

कथमिति ।

अनुमानैः संभावनां दर्शयति —

अत्रेति ।

तत्र तत्कार्यत्वहेतुकमनुमानमाह —

तेषामिति ।

वागित्येदुक्थमिति संबन्धः ।

इन्द्रियव्यावृत्त्यर्थं वाक्पदार्थमाह —

शब्देति ।

संगृहीतमर्थं विवृणोति —

यः कश्चेत्यादिना ।

उक्थत्वमुपपादयितुमुत्तरं वाक्यमित्याह —

तदाहेति ।

कार्यकारणभावेऽपि किमायातमत आह —

कार्यञ्चेति ।

सर्वे नामविशेषास्तन्मात्रत्वात्तत्त्वतो न भिद्यन्ते तत्कार्यत्वाद्यद्यत्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः ।

सर्वे नामविशेषास्तत्सामान्ये कल्पिताः प्रत्येकं तदनुविद्धत्वाद्रज्ज्विदमंशानुविद्धसर्पादिवदित्यनुमानान्तरमाह —

तथेति ।

कार्याणां कारणेऽन्तर्भाववदिति यावत् ।

उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति —

कथमित्यादिना ।

सामत्वं साधयति —

एतद्धीति ।

इतश्च नामविशेषा नाममात्रेऽन्तर्भवन्तीत्याह —

किञ्चेति ।

नामविशेषाणां नाममात्रादात्मलाभात्तस्मादविशेषात्तत्रैवान्तर्भाव इत्यक्षरार्थः ।

सर्वे नामविशेषास्तत्सामान्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽत्मवत्त्वाद्ये येनाऽऽत्मवन्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तुतस्ततोऽन्ये न सन्तीत्युक्तेऽनुमाने व्याप्तिं साधयति —

यस्य चेति ।

हेतुसमर्थनार्थमुत्तरं वाक्यमुत्थापयति —

कथमित्यादिना ।

अतः शब्दमात्रात्तद्विशेषाणामात्मलाभो भवतीति शेषः ।

तत्रैव युक्तिमाह —

ततो हीति ।

तत्रैव वाक्यमवतार्य व्याचष्टे —

तदित्यादिना ।

तस्मात्तन्मात्रात्तद्विशेषाणामात्मलाभ इति वाक्यशेषः ।

प्रथमकण्डिकया सिद्धमर्थमुपसंहरति —

एवमिति ।

उपपत्तित्रयमुत्तरवाक्यद्वयेऽपि तुल्यमित्यादिशति —

एवमुत्तरयोरिति ॥१॥