तत्र व्याख्यानसापेक्षाणि पदानि व्याकरोति —
अथेत्यादिना ।
नामव्याख्यानानन्तर्यमथशब्दार्थः । चक्षुरुक्थमिति संबन्धः । चक्षुरिति चक्षुःशब्दाभिधेयं चक्षुविषयसामान्यमभिधीयते तच्च रूपसामान्यं तदपि प्रकाश्यमात्रमिति योजना ॥२॥