आख्यायिकार्थे बहुधा स्थिते तदक्षराणि व्याचष्टे —
अत्रेत्यादिना ।
पूर्वपक्षवादित्वे हेतुमाह —
अविद्याविषयेति ।
गर्वितत्वे हेतुमाह —
असम्यगिति ।
इयमेव नु वाङ्निमित्तमित्यत्रापि कस्मादित्यनुषज्यते । अतो ब्रह्म ते ब्रवाणीति वागेव सहस्रदाने निमित्तमिति शेषः ।
श्रुतिं व्याचष्टे —
जनक इति ।
प्रसिद्धं जनकस्य दातृत्वादि तदवद्योतको वैनिपात इति यावत् ।
वाक्यार्थमाह —
जनको दित्सुरित्यादिना ।
संभावितवानसीति प्रागुक्तं वाङ्मात्रं सहस्रदाने निमित्तमिति शेषः । तस्मान्मुग्धप्रसिद्ध्यतिक्रमणादिति यावत् । तत्सर्वं दातृत्वादिकमित्यर्थः । इतिशब्दोऽभिप्रायसमाप्त्यर्थः ॥१॥