हृदि प्रविष्टो भोक्ताऽहमित्यादि प्रत्यक्षं प्रमाणयति —
अहमिति ।
दृष्टिफलं नैरन्तर्याभ्यासं दर्शयति —
उपास इति ।
तावता मम किमायातं तदाह —
तस्मादिति ।
मा मेति प्रतीकमादायाभ्यासस्यार्थमाह —
मा मेतीति ।
विनिवारयन्प्रत्युवाचेति संबन्धः ।
एकस्य माङो निवारकत्वमपरस्य संवादेन संगतिरिति विभागे संभवति कुतो द्विर्वचनमित्याशङ्क्याऽऽह —
मा मेत्याबाधनार्थमिति ।
तदेव स्फुटयति —
एवमिति ।
त्वदुक्तेन प्रकारेण यो विज्ञानविषयोऽर्थस्तस्मिन्नावयोर्विज्ञानसाम्यादेव समानेऽपि विज्ञानवत्त्वे सत्यस्मानविज्ञानवत इव स्वीकृत्य तमेवार्थमस्मान्प्रत्युपदेशेन ज्ञापयता भवता वयं बाधिताः स्याम इति योजना ।
तथाऽपि गार्ग्यस्य कथमीषद्बाधनं तत्राऽऽह —
अत इति ।
अतिष्ठाः सर्वेषामित्यादिवाक्यं शङ्काद्वाराऽवतार्य व्याकरोति —
अथेत्यादिना ।
एतं पुरुषमिति शेषः । इतिशब्दो गुणोपास्तिसमाप्त्यर्थः ।
पूर्वोक्तरीत्या त्रिभिर्गुणैर्विशिष्टं ब्रह्म तदुपासकस्य फलमपि जानामीत्युक्त्वा फलवाक्यमुपादत्ते —
स य इति ।
किमिति यथोक्तं फलमुच्यते तत्राऽऽह —
यथेति ।
मनसि चेति चकाराद्बुद्धौ चेत्यर्थः ॥२॥