बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद हिता नाम नाड्यो द्वासप्ततिः सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते स यथा कुमारो वा महाराजो वा महाब्राह्मणो वातिघ्नीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते ॥ १९ ॥
दर्शनवृत्तौ स्वप्ने वासनाराशेर्दृश्यत्वादतद्धर्मतेति विशुद्धता अवगता आत्मनः ; तत्र यथाकामं परिवर्तत इति कामवशात्परिवर्तनमुक्तम् ; द्रष्टुर्दृश्यसम्बन्धश्च अस्य स्वाभाविक इत्यशुद्धता शङ्क्यते ; अतस्तद्विशुद्ध्यर्थमाह —

वृत्तानुवादपूर्वकमुत्तरश्रुतिनिरस्यामाशङ्कामाह —

दर्शनवृत्तावित्यादिना ।

तत्रेति स्वप्नोक्तिः । कामादिसंबन्धश्चकारार्थः ।

निवर्त्यशङ्कासद्भावान्निवर्तकानन्तरश्रुतिप्रवृत्तिं प्रतिजानीते —

अत इति ।