स्वात्माप्रविभक्तेनेत्युक्तमन्वयं व्यतिरेकद्वारा स्फोरयति —
न चेति ।
असहायस्य कारणत्वे दृष्टान्तमुक्त्वा कूटस्थस्य तद्भावे दृष्टान्तमाह —
यथाचेति ।
माध्यन्दिनश्रुतिमाश्रित्याह —
सर्व एत इति ।
तस्येत्याद्यवतार्य व्याचष्टे —
यस्मादित्यादिना ।
ननु प्रत्यग्भूतस्य ब्रह्मणो वाचकेषु शब्दान्तरेष्वपि सत्सु किमित्येतच्छब्दविषयमादरणं क्रियत तत्राऽऽह —
शास्त्रेति ।
ब्राह्मणवाक्यार्थोऽपि कथं निश्चीयतामित्याशङ्क्याऽऽह —
एतस्येति ।