उक्तमङ्गीकृत्य विशेषदृष्ट्या संशयानो विचारं प्रस्तौति —
भवत्विति ।
सन्दिग्धं सप्रयोजनं च विचार्यमिति न्यायेन सन्देहमुक्त्वा विचारप्रयोजकं प्रयोजनं पृच्छति —
किञ्चात इति ।
कस्मिन्पक्षे किं फलतीति पृष्टे प्रथमपक्षमनूद्य तस्मिन्फलमाह —
यदीति ।
यद्विज्ञानान्मुक्तिस्तस्यैव ज्ञेयता न जीवस्येत्याशङ्क्याऽऽह —
तद्विज्ञानादिति ।
ब्रह्मज्ञानादेव सा न संसारिज्ञानादित्याशङ्क्याऽऽह —
स एवेति ।
तद्विद्या ब्रह्मविद्या तदेव ब्रह्म न संसारीत्याशङ्क्याऽऽह —
तद्विद्यैवेति ।
आद्यकल्पीयफलसमाप्तावितिशब्दः ।
पक्षान्तरमनूद्य तस्मिन्फलमाह —
अथेत्यादिना ।
किमत्र नियामकमित्याशङ्क्य ब्रह्म वा इदमित्यादि शास्त्रमित्याह —
सर्वमेतदिति ।
ब्रह्मोपनिषत्पक्षे शास्त्रप्रामाण्यात्सर्वं समञ्जसं चेत्तथैवास्तु किं विचारेणेत्याशङ्क्य जीवब्रह्मणोर्भेदोऽभोदो वेति विकल्प्याऽऽद्ये दोषमाह —
किन्त्विति ।
अभेदपक्षं दूषयति —
संसारिणश्चेति ।
उपेदेशानर्थक्यादभेदपक्षानुपपत्तिरिति शेषः ।
विशेषानुपलम्भस्य संशयहेतुत्वमनुवदति —
यत इति ।
पक्षद्वये फलप्रतीतिं परामृशति —
एवमिति ।
अन्वयव्यतिरेककौशलं पाण्डित्यम् । एतदित्यैकात्म्योक्तिः । महत्त्वं मोहस्य विचारोत्थनिर्णयं विनाऽनुच्छिन्नत्वम् । तस्य स्थानमालम्बनं केनापि नोक्तं प्रतिवचनं यस्य किं तदैकात्म्यमिति प्रश्नस्य तस्य विषयभूतमिति यावत् । न हि येन केनचिदैकात्म्यं प्रष्टुं प्रतिवक्तुं वा शक्यते । ‘श्रवणायापि बहुभिर्यो न लभ्यः’(क.उ. १-२-७) इत्यादिश्रुतेरित्यर्थः ।
विचारप्रयोजकमुक्त्वा तत्कार्यं विचारमुपसंहरति —
अत इति ।