सेश्वरवादमुत्थापयति —
यः सर्वज्ञ इत्यादिना ।
तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः ।
प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति —
नन्विति ।
नेदं जीवस्य प्रकरणमिति परिहरति —
नेत्यादिना ।
प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह —
क्वैष इति ।
इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह —
दहरोऽस्मिन्निति ।
य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः ।
प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह —
प्रकृत एवेति ।
तस्य प्रकृतत्वे लब्धमर्थमाह —
तस्मादिति ।
इतश्च परस्मादेव प्राणादिसृष्टिरित्याह —
संसारिण इति ।
यन्महता प्रपञ्चेनेत्यादाविति शेषः ।
अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति —
अत्र चेति ।
तृतीयोऽध्यायः सप्तम्यर्थः ।
का पुनः सा ब्रह्मविद्येति तत्राऽऽह —
ब्रह्मविषयञ्चेति ।
इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।
चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —
ब्रह्मेति ।
सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह —
तत्रेति ।
ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः ।
विपक्षे दोषमाह —
परमिति ।
कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह —
तस्मादिति ।
आदिपदं प्रदक्षिणादिसंग्रहार्थम् ।
ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह —
न पुनरिति ।
का तर्हि शास्त्रगतिस्ताऽऽह —
ब्रह्मेति ।
मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह —
सर्वेति ।
संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः ।