बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् ॥ २० ॥
‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९), (मु. उ. २ । २ । ७) ‘योऽशनायापिपासे अत्येति’ (बृ. उ. ३ । ५ । १) ‘असङ्गो न हि सज्जते’ (बृ. उ. ३ । ९ । २६) ‘एतस्य वा अक्षरस्य प्रशासने’ (बृ. उ. ३ । ८ । ९) ‘यः सर्वेषु भूतेषु तिष्ठन् — अन्तर्याम्यमृतः’ (बृ. उ. ३ । ७ । १५) ‘स यस्तान्पुरुषान्निरुह्यात्यक्रामत्’ (बृ. उ. ३ । ९ । २६) ‘स वा एष महानज आत्मा’ (बृ. उ. ४ । ४ । २२) ‘एष सेतुर्विधरणः’ (बृ. उ. ४ । ४ । २२) ‘सर्वस्य वशी सर्वस्येशानः’ (बृ. उ. ४ । ४ । २२) ‘य आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १), (छा. उ. ८ । ७ । ३) ‘तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) ‘न लिप्यते लोकदुःखेन बाह्यः’ (क. उ. २ । २ । ११) इत्यादिश्रुतिशतेभ्यः — स्मृतेश्च ‘अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते’ (भ. गी. १० । ८) इति — परोऽस्ति असंसारी श्रुतिस्मृतिन्यायेभ्यश्च ; स च कारणं जगतः । ननु ‘एवमेवास्मादात्मनः’ इति संसारिण एवोत्पत्तिं दर्शयतीत्युक्तम् — न, ‘य एषोऽन्तर्हृदय आकाशः’ (बृ. उ. २ । १ । १७) इति परस्य प्रकृतत्वात् , ‘अस्मादात्मनः’ इति युक्तः परस्यैव परामर्शः । ‘क्वैष तदाभूत्’ (बृ. उ. २ । १ । १६) इत्यस्य प्रश्नस्य प्रतिवचनत्वेन आकाशशब्दवाच्यः पर आत्मा उक्तः ‘य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते’ (बृ. उ. २ । १ । १६) इति ; ‘सता सोम्य तदा सम्पन्नो भवति’ (छा. उ. ६ । ८ । १) ‘अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ (छा. उ. ८ । ३ । २) ‘प्राज्ञेनात्मना सम्परिष्वक्तः’ (बृ. उ. ४ । ३ । २१) ‘पर आत्मनि सम्प्रतिष्ठते’ (प्र. उ. ४ । ७) इत्यादिश्रुतिभ्य आकाशशब्दः परआत्मेति निश्चीयते ; ‘दहरोऽस्मिन्नन्तराकाशः’ (छा. उ. ८ । १ । १) इति प्रस्तुत्य तस्मिन्नेव आत्मशब्दप्रयोगाच्च ; प्रकृत एव पर आत्मा । तस्मात् युक्तम् ‘एवमेवास्मादात्मनः’ इति परमात्मन एव सृष्टिरिति ; संसारिणः सृष्टिस्थितिसंहारज्ञानसामर्थ्याभावं च अवोचाम । अत्र च ‘आत्मेत्येवोपासीत’ (बृ. उ. १ । ४ । ७) ‘आत्मानमेवावेदहं ब्रह्मास्मि - ’ (बृ. उ. १ । ४ । १०) इति ब्रह्मविद्या प्रस्तुता ; ब्रह्मविषयं च ब्रह्मविज्ञानमिति ; ‘ब्रह्म ते ब्रवाणि’ (बृ. उ. २ । २ । १) इति ‘ब्रह्म ज्ञपयिष्यामि’ (बृ. उ. २ । १ । १५) इति प्रारब्धम् । तत्र इदानीम् असंसारि ब्रह्म जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्वभावम् ; तद्विपरीतश्च संसारी ; तस्मात् अहं ब्रह्मास्मीति न गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन् कथं न दोषभाक्स्यात् ; तस्मात् न अहं ब्रह्मास्मीति युक्तम् । तस्मात्पुष्पोदकाञ्जलिस्तुतिनमस्कारबल्युपहारस्वाध्यायध्यानयोगादिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् — अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन । ब्रह्मात्मत्वप्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति । सर्वतर्कशास्त्रलोकन्यायैश्च एवमविरोधः स्यात् ॥

सेश्वरवादमुत्थापयति —

यः सर्वज्ञ इत्यादिना ।

तान्पृथिव्याद्यभिमानिनः पुरुषान्निरुह्योत्पाद्य योऽतिक्रान्तवान्स एष सर्वविशेषशून्य इति यावत् । उदाहृताः श्रुतयः स्मृतयश्च । न्यायस्तु विचित्रं कार्यं विशिष्टज्ञानपूर्वकं प्रासादादौ तथोपलम्भादित्यादिः ।

प्रकरणमनुसृत्य जीवस्य प्राणादिकारणत्वमुक्तं स्मारयति —

नन्विति ।

नेदं जीवस्य प्रकरणमिति परिहरति —

नेत्यादिना ।

प्रतिवचनस्थाकाशशब्दस्य परविषयत्वमसिद्धमित्याङ्क्याऽऽह —

क्वैष इति ।

इतश्चाकाशशब्दस्य परमात्मविषयतेत्याह —

दहरोऽस्मिन्निति ।

य आत्माऽपहतपाप्मेत्यात्मशब्दप्रयोगः ।

प्रतिवचने परस्याऽऽकाशशब्दवाच्यत्वे फलितमाह —

प्रकृत एवेति ।

तस्य प्रकृतत्वे लब्धमर्थमाह —

तस्मादिति ।

इतश्च परस्मादेव प्राणादिसृष्टिरित्याह —

संसारिण इति ।

यन्महता प्रपञ्चेनेत्यादाविति शेषः ।

अस्तीश्वरो जगत्कारणं ब्रह्म तदेव जीवस्य स्वरूपं तस्येयमुपनिषदिति सिद्धान्तमाशङ्क्य दूषयति —

अत्र चेति ।

तृतीयोऽध्यायः सप्तम्यर्थः ।

का पुनः सा ब्रह्मविद्येति तत्राऽऽह —

ब्रह्मविषयञ्चेति ।

इति ब्रह्मविद्यां प्रसिद्धमिति शेषः ।

चतुर्थे ब्रह्मविद्या प्रस्तुतेत्याह —

ब्रह्मेति ।

सत्यमस्ति प्रस्तुता ब्रह्मविद्या सा जीवविद्याऽपि भवति जीवब्रह्मणोरभेदादित्याशङ्क्याऽऽह —

तत्रेति ।

ब्रह्मविद्यायां प्रस्तुतायामिति यावत् । इदानीं न गृह्णीयादिति संबन्धः । मिथो विरुद्धत्वप्रतीत्यवस्थायामित्येतत् । अन्योन्यविरुद्धत्वं तच्छब्दार्थः ।

विपक्षे दोषमाह —

परमिति ।

कथं तर्हीश्वरे मतिं कुर्यादित्याशङ्क्य स्वामित्वेनेत्याह —

तस्मादिति ।

आदिपदं प्रदक्षिणादिसंग्रहार्थम् ।

ऐकात्म्यशास्त्रादात्ममतिरेव ब्रह्मणि कर्तव्येत्याशङ्क्याऽऽह —

न पुनरिति ।

का तर्हि शास्त्रगतिस्ताऽऽह —

ब्रह्मेति ।

मुख्यार्थत्वसंभवे किमित्यर्थवादतेत्याशङ्क्याऽऽह —

सर्वेति ।

संसारित्वासंसारित्वादिना मिथो विरुद्धयोर्जीवेश्वरयोः शीतोष्णवदैक्यानुपपत्तिर्न्यायः ।