तत्त्वमस्यादिवाक्यमैक्यपरं तच्छेषः सृष्ट्यादिवाक्यमित्युक्तेऽर्थे द्रविडाचार्यसम्मतिमाह —
अत्र चेति ।
तत्र दृष्टान्तरूपामाख्यायिकां प्रमाणयति —
कश्चिदिति ।
जातमात्रे प्रागवस्थायामेव राजाऽसीत्यभिमानाभिव्यक्तेरित्यर्थः । ताभ्यां तत्परित्यागे निमित्तविशेषस्यानिश्चितत्वद्योतनार्थं किलेत्युक्तम् । व्याधिजाति प्रत्ययः तत्प्रयुक्तो व्याधोऽस्मीत्यभिमानो यस्य स तथा व्याधजातकर्माणि तत्प्रयुक्तानि मांसविक्रयणादीनि । राजाऽस्मीत्यभिमानपूर्वकं तज्जातिप्रयुक्तानि परिपालनादीनि कर्माणि ।
अज्ञानं तत्कार्यं चोक्त्वा ज्ञानं तत्फलं च दर्शयति —
यदेत्यादिना ।
बोधनप्रकारमभिनयति —
न त्वमिति ।
कथं तर्हि शबरवेश्मप्रवेशस्तत्राऽऽह —
कथञ्चिदिति ।
राजाऽहमस्मीत्यभिमानपूर्वकमात्मनः पितृपैतामहीं पदवीमनुवर्तत इति संबन्धः ।
दार्ष्टान्तिकरूपामाख्यायिकामाचष्टे —
तथेति ।
जीवस्य परस्माद्विभागे निमित्तमज्ञानं तत्कार्यञ्च प्रसिद्धमिति द्योतयितुं किलेत्युक्तम् ।
संसारधर्मानुवर्तने हेतुमाह —
परमात्मतामिति ।
उक्ताविद्यातत्कार्यविरोधिनीं ब्रह्मात्मविद्यां लम्भयति —
न त्वमिति ।
राजपुत्रस्य राजाऽस्मीति प्रत्ययवद्वाक्यादेवाधिकारिणि ब्रह्मास्मीति प्रत्ययश्चेत्कृतं विस्फुलिङ्गादिदृष्टान्तश्रुत्येत्याशङ्क्याऽऽह —
अत्रेति ।
तथाऽपि कथं ब्रह्मप्रत्ययदार्ढ्यं तत्राऽऽह —
विस्फुलिङ्गस्येति ।
दृष्टान्तेष्वेकत्वदर्शनं तस्मादिति परामृष्टम् ।
उत्पत्त्यादिभेदे नास्ति शास्त्रतात्पर्यमित्यत्र हेत्वन्तरमाह —
सैन्धवेति ।
चकारोऽवधारणादिति पदमनुकर्षति ।
संगृहीतमर्थं विवृणोति —
यदि चेत्यादिना ।
निन्दावचनं च न प्रायोक्ष्यतेति संबन्धः ।
एकत्वस्यावधारणफलमाह —
तस्मादिति ।
एकत्वस्य भेदसहत्वं वारयितुमेकरूपविशेषणम् । आदिशब्देन प्रवेशनियमने गृह्येते । न तत्प्रत्ययकरणायेत्यत्र तच्छब्देनोत्पत्त्यादिभेदो विवक्षितः ।