प्रामाण्यहेतुसद्भावादुपनिषदां प्रामाण्यं प्रतिपाद्य तदप्रामाण्यं परोक्तमनुवदति —
यच्चोक्तमिति ।
कथं हि तासां स्वार्थविघातकत्वं किं ताभ्यो ब्रह्मैकमेवाद्वितीयं नैव चेति प्रतिपत्तिरुत्पद्यते किं वा काश्चिद्ब्रह्मैकत्वप्रतिपत्तिमन्याश्चोपनिषदस्तत्प्रतिषेधं कुर्वन्तीति विकल्प्याऽऽद्यं दूषयति —
तदपि नेति ।
तदेव प्रपञ्चयति —
न हीति ।
एकस्य वाक्यस्यानेकार्थत्वमङ्गीकृत्य वैधर्म्योदाहरणमुक्तमाह —
अभ्युपगम्येति ।
तस्याङ्गीकारवादत्वे हेतुमाह —
न त्विति ।
उक्तमर्थं व्यतिरेकद्वारा विवृणोति —
सति चेति ।
भवत्वेकस्य वाक्यस्यानेकार्थत्वं नेत्याह —
न त्वति ।
कस्तर्हि तेषां समयस्तत्राऽऽह —
अर्थैकत्वादिति ।
तदुक्तं प्रथमे तन्त्रे – अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विविभागे स्यादिति ।
द्वितीयं दूषयति —
न चेति ।
एकस्य वाक्यस्यानेकार्थत्वं लोके दृष्टमित्याशङ्क्याऽऽह —
यत्त्विति ।
तदेकदेशस्येत्यादिवाक्यं विवृणोति —
अग्निरिति ।
अनुवादकबोधकभागयोरेकवाक्यत्वाभावं फलितमाह —
अत इति ।
हेत्वर्थमुक्तमेव स्फुटयति —
प्रमाणान्तरेति ।
शीतः शैशिरोऽग्निरित्येद्बोधकमेव चेद्वाक्यं कथं तर्हि तत्र बोधकस्य विरुद्धार्थधीरित्याशङ्क्याऽऽह —
यत्त्विति ।