रुद्रादिशब्दानां देवताविषयत्वान्मन्त्रस्यापि तद्विषयतेत्याशङ्क्य चक्षुषि रुद्रादिगणस्योक्तत्वादिन्द्रियसंबन्धात्तस्य करणग्रामत्वप्रतीतेस्तद्विषयः श्लोको न प्रसिद्धदेवताविषय इत्यभिप्रेत्याह —
तत्तत्रेति ।
मन्त्रस्य व्याख्यानसापेक्षत्वं तत्रोच्युते ।
शिरश्चमसाकारत्वमस्पष्टमित्याशङ्क्य समाधत्ते —
कथमित्यादिना ।
वागष्टमीत्युक्तं तस्याः सप्तमत्वेनोक्तत्वान्न चैकस्या द्वित्वमित्याशङ्क्याऽऽह —
ब्रह्मणेति ।
शब्दराशिर्ब्रह्म तेन संवादः संसर्गस्तं गच्छन्ती शब्दरीशिमुच्चारयन्ती वागष्टमी स्यादिति यावत् ।
तथाऽपि सप्तमत्वं विहाय कथमष्टमत्वं तत्राऽऽह —
तद्धेतुमिति ।
वक्तृत्वात्तृत्वभेदेन द्विधा वागिष्टा । तत्र वक्तृत्वेनाष्टमी सप्तमी चात्तृत्वेनेत्यविरोधः रसना तूपलब्धिहेतुरिति भावः ॥३॥