विपर्ययेण वेत्येतत्पूर्ववदित्युच्यते । अत्रिः सप्तम इति संबन्धः । अत्रित्वे हेतुरदनक्रियायोगादिति । हेतुं साधयति —
वाचा हीति ।
साध्यमर्थं निगमयति —
तस्मादिति ।
तर्हि कथमत्रिरिति व्यपदेश्यतेऽत आह —
अत्तिरेवेति ।
प्राणस्य यदन्नजातमेतस्य सर्वस्यात्ता भवत्यत्रिनिर्वचनविज्ञानादिति संबन्धः ।
सर्वमस्येत्यादिवाक्यमर्थोक्तिपूर्वकं प्रकटयति —
अत्तैवेति ।
न केवलमत्रिनिर्वचनविज्ञानकृतमेतत्फलं किन्तु प्राणयाथात्म्यवेदनप्रयुक्तमित्याह —
य एवमिति ॥४॥