आधिदैविकं मूर्तमभिधाय तादृगेवामूर्तं प्रतीकोपादानपूर्वकं स्फुटयति —
अथेत्यादिना ।
अमूर्तमुभयत्र हेतुत्वेन संबध्यते । अपरिच्छिन्नत्वमविरोधे हेतुः ।
अमूर्तत्वादीनां मिथो विशेषणविशेष्यभावो हेतुहेतुमद्भावश्च यथेष्टं द्रष्टव्य इत्याऽऽह —
पूर्ववदिति ।
पुनरुक्तिरपि पूर्ववत् । य एष इत्यादि प्रतीकग्रहणं तस्य व्याख्यानं करणात्मक इत्यादि ।
यथा भूतत्रयस्य मण्डलं सारिष्ठमुक्तं तद्वदित्याह —
पूर्ववदिति ।
सारिष्ठत्वमनूद्य हेतुमाह —
एतदिति ।
तादर्थ्याद्भूतद्वयस्य भूतत्रयोपसर्जनस्य स्वयम्प्रधानस्य हिरण्यगर्भारम्भार्थत्वादिति यावत् । भूतद्वयं भूतत्रयोपसर्जनमिति शेषः ।
हेतुमवतार्य व्याचष्टे —
त्यस्य हीति ।
पुरुषशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः । अमूर्तत्वादिविशेषणचतुष्टयवैशिष्ट्यं साधर्म्यम् ।
तत्फलमाह —
तस्मादिति ।