कुतो विशेषोक्तिरित्याशङ्क्याऽऽह —
दक्षिण इति ।
शास्त्रस्य तेन वा दक्षिणेऽक्षिणि विशेषस्य प्रत्यक्षत्वादित्यर्थः ।
द्वितीयव्याख्यानमाश्रित्य हेत्वर्थं स्फुटयति —
लिङ्गस्येति ।
हेतुमनूद्य तदर्थं कथयति —
त्यस्येति ।
यथा पूर्वत्र चक्षुषि मूर्तादिचतुष्टयदृष्ट्या तादृग्भूतत्रयसारतोक्ता तथाऽत्रापि लिङ्गात्मन्यमूर्तत्वादिचतुष्टयस्य विशेषेणाग्रहणादमूर्तत्वादिना साधर्म्यात्तथाविधभूतद्वयसारत्वं तस्य शरीरे प्राधान्याच्च तत्सारत्वसिद्धिरित्यर्थः ॥५॥