भार्यामामन्त्र्य किं कृतवानिति तदाह —
उद्यासन्निति ।
वैशब्दोऽवधारणार्थः । आश्रमान्तरं यास्यन्नेवाहमस्मीति संबन्धः ।
यथोक्तेच्छानन्तरं भार्यायाः कर्तव्यं दर्शयति —
अत इति ।
सति भार्यादौ संन्यासस्य तदनुज्ञापूर्वकत्वनियमादिति भावः ।
कर्तव्यान्तरं कथयति —
किञ्चेति ।
आवयोर्विच्छेदः स्वाभाविकोऽस्ति किं तत्र कर्तव्यामित्याशङ्क्याऽऽह —
पतिद्वारेणेति ।
त्वयि प्रव्रजिते स्वयमेवाऽऽवयोर्विच्छेदो भविष्यतीत्याशङ्क्याऽऽह —
द्रव्येति ।
वित्ते तु न स्त्रीस्वातन्त्र्यमिति भावः ॥१॥