मैत्रेयी मोक्षमेवापेक्षमाणा भर्तारं प्रत्यानुकूल्यमात्मनो दर्शयति —
सैवमिति ।
कर्मसाध्यस्य गृहप्रासादादिवन्नित्यत्वानुपपत्तिराक्षेपनिदानम् ।
कथंशब्दस्य प्रश्नार्थपक्षे वाक्यं योजयति —
तेनेति ।
कथं तेनेत्यत्र कथंशब्दस्य किमहं तेनेत्यत्रत्यं किंशब्दमुपादाय वाक्यं योजनीयम् । वित्तसाध्यस्य कर्मणोऽमृतत्वसाधनत्वमात्रासिद्धौ तत्प्रकारप्रश्नस्य निरवकाशत्वादित्यर्थः ।
मुनिरपि भार्याहृदयाभिज्ञः सन्तुष्टः सन्नापेक्षं प्रश्नं च प्रतिवदतीत्याह —
प्रत्युवाचेति ।
वित्तेन ममामृतत्वाभावे तदकिञ्चित्करमवसेयमित्याशङ्क्याऽऽह —
किं तर्हीति ॥२॥