बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
स होवाच न वा अरे पत्युः कामाय पतिः प्रियो भवत्यात्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवत्यात्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्त्यात्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवत्यात्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवत्यात्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवत्यात्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्त्यात्मनस्तु कामाय लोकाः प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्त्यात्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्त्यात्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवत्यात्मनस्तु कामाय सर्वं प्रियं भवति । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम् ॥ ५ ॥
स होवाच — अमृतत्वसाधनं वैराग्यमुपदिदिक्षुः जायापतिपुत्रादिभ्यो विरागमुत्पादयति तत्सन्न्यासाय । न वै — वै - शब्दः प्रसिद्धस्मरणार्थः ; प्रसिद्धमेव एतत् लोके ; पत्युः भर्तुः कामाय प्रयोजनाय जायायाः पतिः प्रियो न भवति, किं तर्हि आत्मनस्तु कामाय प्रयोजनायैव भार्यायाः पतिः प्रियो भवति । तथा न वा अरे जायाया इत्यादि समानमन्यत् , न वा अरे पुत्राणाम् , न वा अरे वित्तस्य, न वा अरे ब्रह्मणः, न वा अरे क्षत्रस्य, न वा अरे लोकानाम् , न वा अरे देवानाम् , न वा अरे भूतानाम् , न वा अरे सर्वस्य । पूर्वं पूर्वं यथासन्ने प्रीतिसाधने वचनम् , तत्र तत्र इष्टतरत्वाद्वैराग्यस्य ; सर्वग्रहणम् उक्तानुक्तार्थम् । तस्मात् लोकप्रसिद्धमेतत् — आत्मैव प्रियः, नान्यत् । ‘तदेतत्प्रेयः पुत्रात्’ (बृ. उ. १ । ४ । ८) इत्युपन्यस्तम् , तस्यैतत् वृत्तिस्थानीयं प्रपञ्चितम् । तस्मात् आत्मप्रीतिसाधनत्वात् गौणी अन्यत्र प्रीतिः, आत्मन्येव मुख्या । तस्मात् आत्मा वै अरे द्रष्टव्यः दर्शनार्हः, दर्शनविषयमापादयितव्यः ; श्रोतव्यः पूर्वम् आचार्यत आगमतश्च ; पश्चान्मन्तव्यः तर्कतः ; ततो निदिध्यासितव्यः निश्चयेन ध्यातव्यः ; एवं ह्यसौ दृष्टो भवति श्रवणमनननिदिध्यासनसाधनैर्निर्वर्तितैः ; यदा एकत्वमेतान्युपगतानि, तदा सम्यग्दर्शनं ब्रह्मैकत्वविषयं प्रसीदति, न अन्यथा श्रवणमात्रेण । यत् ब्रह्मक्षत्रादि कर्मनिमित्तं वर्णाश्रमादिलक्षणम् आत्मन्यविद्याध्यारोपितप्रत्ययविषयं क्रियाकारकफलात्मकम् अविद्याप्रत्ययविषयम् — रज्ज्वामिव सर्पप्रत्ययः, तदुपमर्दनार्थमाह — आत्मनि खलु अरे मैत्रेयि दृष्टे श्रुते मते विज्ञाते इदं सर्वं विदितं विज्ञातं भवति ॥

अमृतत्वसाधनमात्मज्ञानं विवक्षितं चेदात्मा वा अरे द्रष्टव्य इत्यादि वक्तव्यं किमिति न वा अरे पत्युरित्यादिवाक्यमित्याशङ्क्याऽऽह —

जायेति ।

उवाच जायादीनात्मार्थत्वेन प्रियत्वमात्मनश्चानौपाधिकप्रियत्वेन परमानन्दत्वमिति शेषः प्रतीकमादाय व्याचष्टे —

न वा इति ।

किं तन्निपातेन स्मार्यते तदाह —

प्रसिद्धमिति ।

यथोक्ते क्रमे नियामकमाह —

पूर्वं पूर्वमिति ।

यद्यदासन्नं प्रीतिसाधनं तत्तदनतिक्रम्य तस्मिन्विषये पूर्वं पूर्वं वचनमिति योजना ।

तत्र हेतुमाह —

तत्रेति ।

न वा अरे सर्वस्येत्ययुक्तं पत्यादीनामुक्तत्वादंशेन पुनरुक्तिप्रसंगादित्याशङ्क्याऽऽह —

सर्वग्रहणमिति ।

उक्तवदनुक्तानामपि ग्रहणं कर्तव्यं न च सर्वे विशेषतो ग्रहीतुं शक्यन्ते तेन सामान्यार्थं सर्वपदमित्यर्थः ।

सर्वपर्यायेषु सिद्धमर्थमुपसंहरति —

तस्मादिति ।

ननु तृतीये प्रियत्वमात्मन आख्यातं तदेवात्रापि कथ्यते चेत्पुनरुक्तिः स्यात्तत्राऽऽह —

तदेतदिति ।

अथोपन्यासविवरणाभ्यां प्रीतिरात्मन्येवेत्ययुक्तं पुत्रादावपि तद्दर्शनादत आह —

तस्मादिति ।

आत्मनो निरतिशयप्रीत्यास्पदत्वेन परमानन्दत्वमभिधायोत्तरवाक्यमादाय व्याचष्टे —

तस्मादित्यादिना ।

कथं पुनरिदं दर्शनमुत्पद्यते तत्राऽऽह —

श्रोतव्य इति ।

श्रवणादीनामन्यतमेनाऽऽत्मज्ञानलाभात्किमिति सर्वेषामध्ययनमित्याशङ्क्याऽऽह —

एवं हीति ।

विध्यनुसारित्वमेवंशब्दार्थः ।

श्रुतत्वाविशेषाद्विकल्पहेत्वभावाच्च सर्वैरेवाऽऽत्मज्ञानं जायते चेत्तेषां समप्रधानत्वमाग्नेयादिवदापतेदित्याशङ्क्याऽऽह —

यदेति ।

श्रवणस्य प्रमाणविचारत्वेन प्रधानत्वादङ्गित्वं मनननिदिध्यासनयोस्तु तत्कार्यप्रतिबन्धप्रध्वंसित्वादङ्गत्वमित्यङ्गाङ्गिभावेन यदा श्रवणादीन्यसकृदनुष्ठानेन समुच्चितानि तदा सामग्रीपौष्कल्यात्तत्त्वज्ञानं फलशिरस्कं सिध्यति । मननाद्यभावे श्रवणमात्रेण नैव तदुत्पद्यते । मननादिना प्रतिबन्धाप्रध्वंसे वाक्यस्य फलवज्ज्ञानजनकत्वायोगादित्यर्थः ।

परामर्शवाक्यस्य तात्पर्यमाह —

यदेत्यादिना ।

कर्मनिमित्तं ब्रह्मक्षत्रादि तदेव वर्णाश्रमावस्थादिरूपमात्मन्यविद्ययाऽध्यारोपितस्य प्रत्ययो मिथ्याज्ञानं तस्य विषयतया स्थितं क्रियाद्यात्मकं तदुपमर्दनार्थमाहेति संबन्धः ।

अविद्याध्यारोपितप्रत्ययविषयमित्येतदेव व्याकरोति —

अविद्येति ।

अविद्याजनितप्रत्ययविषयत्वे दृष्टान्तमाह —

रज्ज्वामिति ॥५॥