स्थित्यवस्थायां सर्वस्याऽऽत्ममात्रत्वं ज्ञातुमशक्यं ज्ञापकाभावादित्याक्षिपति —
कथं पुनरिति ।
घटः स्फुरतीत्यादिप्रत्ययमाश्रित्य परिहरति —
चिन्मात्रेति ।
स यथा दुन्दुभेरित्यादि वाक्यमवतारयति —
तत्रेति ।
सर्वत्र चिदतिरेकेणासत्त्वं सप्तम्यर्थः ।
दृष्टान्ते विवक्षितं संक्षिपति —
यत्स्वरूपेति ।
दुन्दुभिदृष्टान्तमादायाक्षराणि व्याचष्टे —
स यथेत्यादिना ।
शब्दविशेषानेव विशदयति —
दुन्दुभीति ।
कथं तर्हि दुन्दुभिशब्दविशेषाणां ग्रहणं तदाह —
दुन्दुभेस्त्विति ।
दुन्दुभिशब्दसामान्यस्येति यावत् ।
उक्तेऽर्थे दुन्दुभ्याघातस्येत्यादिवाक्यमुत्थाप्य व्याचष्टे —
दुन्दुभ्याघातस्येति ।
वाशब्दार्थमाह —
तद्गता विशेषा इति ।
उक्तमर्थं व्यतिरेकमुखेन विशदयति —
न त्वति ।
विवक्षितं दार्ष्टान्तिकमाचष्टे —
तथेति ।
तत्रैव वस्तुविशेषग्रहणसंभावनामभिप्रेत्य स्वप्नजागरितयोरित्युक्तम् ॥७॥